छोड़कर सामग्री पर जाएँ

Mangal Kavach in Hindi – मंगल कवच

Angaraka Kavacham or Mangal KavachPin

Mangal Kavach literally means “Armour” of Lord Mangal or Angaraka or Kuja. It is said that Lord Mangal governs marriage issues, and finance and debt related problems. It is best to chant any Mangal Stotras on Tuesdays. Get Mangal Kavach in Hindi Pdf Lyrics here and chant it with devotion to gain peace and prosperity in life.

Mangal Kavach in Hindi – मंगल कवच 

अस्य श्री अङ्गारक कवचस्तोत्रमहामन्त्रस्य विरूपाक्ष ऋषिः । अनुष्टुप् छन्दः । अङ्गारको देवता । अं बीजम् । गं शक्तिः । रं कीलकम् । मम अङ्गारकग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

करन्यासः ॥

आं अङ्गुष्ठाभ्यां नमः ।
ईं तर्जनीभ्यां नमः ।
ऊं मध्यमाभ्यां नमः ।
ऐं अनामिकाभ्यां नमः ।
औं कनिष्ठिकाभ्यां नमः ।
अः करतलकरपृष्ठाभ्यां नमः ॥

अङ्गन्यासः ॥

आं हृदयाय नमः ।
ईं शिरसे स्वाहा ।
ऊं शिखायै वषट् ।
ऐं कवचाय हुम् ।
औं नेत्रत्रयाय वौषट् ।
अः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानम्

नमाम्यङ्गारकं देवं रक्ताङ्गं वरभूषणम् ।
जानुस्थं वामहस्ताभ्यां चापेषुवरपाणिनम् ।
चतुर्भुजं मेषवाहं वरदं वसुधाप्रियम् ।
शक्तिशूलगदाखड्गं ज्वालपुञ्जोर्ध्वकेशकम् ॥

मेरुं प्रदक्षिणं कृत्वा सर्वदेवात्मसिद्धिदम् ।

कवच

अङ्गारकश्शिरो रक्षेत् मुखं वै धरणीसुतः ।
कर्णौ रक्ताम्बरः पातु नेत्रे मे रक्तलोचनः ॥ 1 ॥

नासिकां मे शक्तिधरः कण्ठं मे पातु भौमकः ।
भुजौ तु रक्तमाली च हस्तौ शूलधरस्तथा ॥ 2 ॥

चतुर्भुजो मे हृदयं कुक्षिं रोगापहारकः ।
कटिं मे भूमिजः पातु ऊरू पातु गदाधरः ॥ 3 ॥

जानुजङ्घे कुजः पातु पादौ भौमस्सदा मम ।
सर्वाणि यानि चाङ्गानि रक्षेन्मे मेषवाहनः ॥ 4 ॥

य इदं कवचं दिव्यं सर्वशत्रुविनाशनम् ।
भूतप्रेतपिशाचानां नाशनं सर्वसिद्धिदम् ॥ 5 ॥

सर्वरोगहरं चैव सर्वसम्पत्प्रदं शुभम् ।
भुक्तिमुक्तिप्रदं नॄणां सर्वसौभाग्यवर्धनम् ॥ 6 ॥

ऋणबन्धनमुक्तिर्वै सत्यमेव न संशयः ।
स्तोत्रपाठस्तु कर्तव्यो देवस्याग्रे समाहितः ॥ 7 ॥

रक्तगन्धाक्षतैः पुष्पैर्धूपदीपगुडोदनैः ।
मङ्गलं पूजयित्वा तु मङ्गलेऽहनि सर्वदा ॥ 8 ॥

ब्राह्मणान्भोजयेत्पश्चाच्चतुरो द्वादशाथवा ।
अनेन विधिना यस्तु कृत्वा व्रतमनुत्तमम् ॥ 9 ॥

व्रतं तदेवं कुर्वीत सप्तवारेषु वा यदि ।
तेषां शस्त्राण्युत्पलानि वह्निस्स्याच्चन्द्रशीतलः ॥ 10 ॥

नचैनं व्यथयन्त्यस्मान्मृगपक्षिगजादयः ।
महान्धतमसे प्राप्रे मार्ताण्डस्योदयादिव ॥ 11 ॥

विलयं यान्ति पापानि शतजन्मार्जितानि वै ॥ 12 ॥

इति श्री मंगल कवच या अंगारक कवच।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *