छोड़कर सामग्री पर जाएँ

Lakshmi Gayatri Mantra in Hindi – श्री लक्ष्मी गायत्री मंत्र

Lakshmi Gayatri Mantra or MantramPin

Get Sri Maha Lakshmi Gayatri Mantra in Hindi lyrics here and chant it with devotion for good fortune, attaining fame and wealth.

Lakshmi Gayatri Mantra in Hindi – श्री लक्ष्मी गायत्री मंत्र 

श्रीलक्ष्मीः कल्याणी कमला कमलालया पत्मा ।
मामकचेतस्सद्मनि हृतपद्मे वसतु विष्णुना साकम् ॥ १॥

तत्सदों श्रीमिति पदैश्चतुर्भिश्चतुरागमैः ।
चतुर्मुखस्तुता मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २॥

सच्चित्सुखा त्रयीमूत्तिस्सर्वपुण्यफलात्मिका ।
सर्वेशमहिषी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ३॥

विद्यावेदान्तसिद्धान्तविवेचनविचारजा ।
विष्णुस्वरूपिणी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ४॥

तुरीयाद्वैतविज्ञानसिद्धिसत्त्वस्वरूपिणि ।
सर्वतत्त्वमयी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ५॥

वरदाभयदाम्भोजाधरपाणिचतुष्टया ।
वागीशजननी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ६॥

रेचकैः पूरकैः पूर्णकुम्भकैः पूतदेहिभिः ।
मुनिभिर्भाविता मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ७॥

णीत्यक्षरमुपासन्तो यत्प्रसादेन सन्ततिम् ।
कुलस्यप्राप्नुयुर्मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ८॥

यन्त्रमन्त्रक्रियासिद्धिरूपा सर्वसुखात्मिका ।
यजनादिमयी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ९॥

भगवत्यच्युते विष्णावनन्ते नित्यवासिनी ।
भगवत्यमलामह्यमिन्दिरेष्टं प्रयच्छतु ॥ १०॥

गोविप्रवेदसूर्याग्निगङ्गाबिल्वसुवर्णगा ।
सालग्राममयी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ११॥

देवता देवतानाञ्च क्षीरसागरसम्भवा ।
कल्याणी भार्गवी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १२॥

वक्ति यो वचसा रित्यं सत्यमेव न चानृतम् ।
तस्मिन् न्यायमते मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १३॥

स्यमन्तकादि मणि यो यत्प्रसादांशकांशकाः ।
अनन्तविभवा मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १४॥

धीराणां व्यासवाल्मीकिपूर्वाणां वाचकं तपः ।
यत्प्राप्तिफलदं मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १५॥

महानुभावैर्मुनिभिर्महाभागैस्तपस्विभिः ।
आराध्य प्रार्थिता मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १६॥

हिमाचलसुतावाणी सख्यसौहार्दलक्षणा ।
या मूलप्रकृतिर्मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १७॥

धिया भक्त्या भिया वाचा तपश्शौचक्रियार्जवैः ।
सद्भिस्समर्चिता मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १८॥

योगेन कर्मणा भक्त्या श्रद्धया श्रीस्समाप्यते ।
सत्यश्शौचपरैर्मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १९॥

योगक्षेमौ सुखादीनां पुण्यजानां निजार्थिने ।
ददाति दयया मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २०॥

मनश्शरीराणि चेतांसि करणानि सुखानि च ।
यदधीनानि सा मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २१॥

प्रज्ञामायुर्बलं वित्तं प्रजामारोग्यमीशतां ।
यशः पुण्यं सुखं मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २२॥

चोरारिव्यालरोगार्णग्रहपीडानिवारिणी ।
अनीतेरभयं मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २३॥

दयामाश्रितवात्सल्यं दाक्षिण्यं सत्यशीलता ।
नित्यं या वहते मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २४॥

या देव्यव्याजकरुणा या जगज्जननी रमा ।
स्वतन्त्रशक्तिर्या मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २५॥

ब्रह्मण्यसुब्रह्मण्योक्तां गायत्र्यक्षरसम्मिताम् ।
इष्टसिद्धिर्भवेन्नित्यं पठतामिन्दिरास्तुतिम् ॥ २६॥

इति श्री लक्ष्मी गायत्रीस्तुति स्सम्पूर्णा ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *