छोड़कर सामग्री पर जाएँ

Navagraha Mangalashtakam in Hindi – नवग्रह मङ्गलाष्टकं

Navagraha Mangalashtakam or Navagraha Mangala SlokaPin

Navagraha Mangalashtakam is an 8-stanza stotram for worshipping the Navagrahas or the 9 Planets. Get Sri Navagraha Mangalashtakam in Hindi Lyrics Pdf here and chant it with devotion for the grace of the Navagrahas.

Navagraha Mangalashtakam in Hindi – नवग्रह मङ्गलाष्टकं 

भास्वान् काश्यपगोत्रजोऽरुणरुचिर्यस्सिंहपोऽर्कस्समि-
त्षट्त्रिस्थोऽदशशोभनो गुरुशशी भौमास्सुमित्रास्सदा,
शुक्रो मन्दरिपुः कलिङ्गजनपश्चाग्नीश्वरौ देवते
मध्येवर्तुलपूर्वदिग्दिनकरः कुर्यात्सदा मङ्गलम् ॥ १ ॥

चन्द्रः कर्कटकप्रभुस्सितनिभश्चात्रेयगोत्रोद्भव-
श्चात्रेयश्चतुरश्रवारुणमुखश्चापे उमाधीश्वरः,
षट्सप्ताग्नि दशैकशोभनफलो नोरिर्बुधार्कौप्रियौ
स्वामी यामुनजश्च पर्णसमिधः कुर्यात्सदा मङ्गलम् ॥ २ ॥

भौमो दक्षिणदिक्त्रिकोणयमदिग्विन्ध्येश्वरः खादिरः
स्वामी वृश्चिकमेषयोस्सु गुरुश्चार्कश्शशी सौहृदः,
ज्ञोऽरिष्षट्त्रिफलप्रदश्च वसुधास्कन्दौ क्रमाद्देवते
भारद्वाजकुलोद्वहोऽरुणरुचिः कुर्यात्सदा मङ्गलम् ॥ ३ ॥

सौम्यः पीत उदङ्मुखस्समिदपामार्गो त्रिगोत्रोद्भवो
बाणेशानदिशस्सुहृद्रविसुतश्शेषास्समाश्शीतगोः,
कन्यायुग्मपतिर्दशाष्टचतुरष्षण्णेत्रगश्शोभनो
विष्णुर्देव्यधिदेवते मगधपः कुर्यात्सदा मङ्गलम् ॥ ४ ॥

जीवश्चाङ्गिरगोत्रजोत्तरमुखो दीर्घोत्तराशास्थितः
पीतोऽश्वत्थसमिच्चसिन्धुजनितश्चापोऽथ मीनाधिपः,
सूर्येन्दुक्षितिजाः प्रिया बुधसितौ शत्रू समाश्चापरे
सप्त द्वे नव पञ्चमे शुभकरः कुर्यात्सदा मङ्गलम् ॥ ५ ॥

शुक्रोभार्गवगोत्रजस्सितरुचिः पूर्वामुखः पूर्वदिक्
पाञ्चालस्थ वृषस्तुलाधिपमहाराष्ट्राधिपौदुम्बरः,
इन्द्राणीमघवाबुधश्च रविजो मित्रोर्क चन्द्रावरी
षष्ठत्रिर्दशवर्जितेभृगुसुतः कुर्यात्सदा मङ्गलम् ॥ ६ ॥

मन्दः कृष्णनिभः सपश्चिममुखः सौराष्ट्रपः काश्यप-
स्स्वामी नक्रसुकुम्भयोर्बुधसितौ मित्रौ कुजेन्दूद्विषौ,
स्थानम्पश्चिमदिक्प्रजापतियमौ देवौ धनुष्यासनौ-
ष्षट्त्रिस्थश्शुभकृच्छमीरविसुतः कुर्यात्सदा मङ्गलम् ॥ ७ ॥

राहुस्सिंहलदेशपो निऋऋतिः कृष्णाङ्गशूर्पासनः
यःपैठीनसगोत्रसम्भवसमिद्दूर्वामुखो दक्षिणः,
यस्सर्पः पशुदैवतोऽखिलगतस्स्वाम्याद्विशेषप्रद
षट्त्रिस्थश्शुभकृच्च सिंहकसुतः कुर्यात्सदा मङ्गलम् ॥ ८ ॥

केतुर्जैमिनिगोत्रजः कुशसमिद्वायव्यकोणेस्थितः
चित्राङ्कध्वजलाञ्छनोहिभगवान्यो दक्षिणाशामुखः,
ब्रह्माचैवतु चित्रगुप्तपतिमान्प्रीत्याधिदेवस्सदा-
षट्त्रिस्थशुभ कृच्च बर्बरपतिः कुर्यात्सदा मङ्गलम् ॥ ९ ॥

इति नवग्रह मङ्गलाष्टकं ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *