Mallikarjuna Stotram is a devotional hymn for worshipping Lord Mallikarjuna of Srisailam. Get Sri Mallikarjuna Stotram in Hindi Pdf Lyrics here and chant it for the grace of Lord Shiva.
Mallikarjuna Stotram in Hindi – श्री मल्लिकार्जुन स्तोत्रम्
श्रीकण्ठादिसमस्तरुद्रनमितो वामार्धजानिः शिवः
प्रालेयाचलहारहीरकुमुदक्षीराब्धितुल्यप्रभः ।
विष्वक्सेनविघातमस्तमकुटीरत्नप्रभाभास्वरः
श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ १॥
इन्द्राद्यामरयातुधानकरवल्लीवेल्लिताशीविषा-
धीशाकर्षितमन्दरागमथिताम्भोराशिजातस्फुर- ।
त्कीलासंहितविस्फुलिङ्गगरलग्रासैकशाम्यद्भयः
श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ २॥
उद्यद्भासुरकासरासुरभुजादर्पाद्रिदम्भोलिभृ-
त्पाटीरामरधेनुनायकककुद्विन्यस्तहस्ताम्बुजः ।
नीहाराचलकन्यकावहनपादद्वन्द्वपादोरुहः
श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ३॥
नीरेजासनमुख्यनिर्जरशिरःप्रच्छन्नपादद्वयः
सर्वज्ञत्रिपुरासुराहितगणाम्भोदौघझञ्झानिलः ।
मार्कण्डेयमहामुनीश्वरनुतप्रख्यातचारित्रकः
श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ४॥
सद्भक्तावलिमानसाम्बुरुहचञ्चच्चञ्चरीको मृडः
क्रीडाबन्धुरपाणिहृत्कमलपोतः कर्णगोकर्णराट् ।
चक्री चक्रसमस्तभूषणगणः कोलासुरध्वंसकः
श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ५॥
कल्याणाचलकार्मुकप्रथितदुग्धाम्भोधिकन्यामनः
कञ्जातभ्रमरायमाणविलसद्गोविन्दसन्मार्गणः ।
धात्रीस्यन्दनभासमाननलिनीजात(प्त)त्रयीसैन्धवः
श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ६॥
गोराजोत्तमवाहनः शशिकलालङ्कारजूटः सदा
पद्मानायकसायकस्त्रिभुवनाधीशः पशूनां पतिः ।
भक्ताभीष्टफलप्रदानचतुरः कारुण्यपाथोनिधिः
श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ७॥
पातालामरवाहिनीवरजलक्रीडासमेतः सदा
रम्भाकननवाटिकाविहरणोद्युक्तस्त्रयीगोचरः ।
फालाक्षो भ्रमराम्बिकाहृदयपङ्केजातपुष्पन्धयः
श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ८॥
॥ इति श्री मल्लिकार्जुन स्तोत्र सम्पूर्णम् ॥