छोड़कर सामग्री पर जाएँ

Rudram Laghunyasam Hindi Lyrics – श्री रुद्र लघुन्यासः

Sri Rudram Laghunyasam

Rudram Laghunyasam is a prayer that is part of Sri Rudram, and is chanted before Namakam and Chamakam. Nyasa is imbibing the God’s principle into self and becoming fully divine before worshipping the Lord. There are 2 Nyasa’s – 1) Mahanyasa 2) Laghunyasa. The former is a long form of Nyasa while the later is a short form of Nyasa. Get Sri Rudram Laghunyasam Hindi Lyrics Pdf here and chant it with utmost devotion for the grace of Lord Shiva.

Rudram Laghunyasam Hindi Lyrics – श्री रुद्र लघुन्यासः

ओं अथात्मानग्ं शिवात्मानग्ं श्रीरुद्ररूपं ध्यायेत् ॥

शुद्धस्फटिकसंकाशं त्रिनेत्रं पञ्चवक्त्रकम् ।
गङ्गाधरं दशभुजं सर्वाभरणभूषितम् ॥

नीलग्रीवं शशांकांकं नागयज्ञोपवीतिनम् ।
व्याघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदम् ॥

कमण्डल्वक्षसूत्राणां धारिणं शूलपाणिनम् ।
ज्वलन्तं पिङ्गलजटाशिखामुद्योतधारिणम् ॥

वृषस्कन्धसमारूढम् उमादेहार्धधारिणम् ।
अमृतेनाप्लुतं शान्तं दिव्यभोगसमन्वितम् ॥

दिग्देवतासमायुक्तं सुरासुरनमस्कृतम् ।
नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् ॥

सर्वव्यापिनमीशानं रुद्रं वै विश्वरूपिणम् ।
एवं ध्यात्वा द्विजस्सम्यक् ततो यजनमारभेत् ॥

अथातो रुद्र स्नानार्चनाभिषेक विधिं व्या᳚ख्यास्यामः ।
आदित एव तीर्थे स्नात्वा उदेत्य शुचिः प्रयतो
ब्रह्मचारी शुक्लवासा देवाभिमुखः स्थित्वा
आत्मनि देवताः स्थापयेत् ।

ओं प्रजनने ब्रह्मा तिष्ठतु । पादयोर्विष्णुस्तिष्ठतु ।
हस्तयोर्हरस्तिष्ठतु । बाह्वोरिन्द्रस्तिष्ठतु ।
जठरे अग्निस्तिष्ठतु । हृदये शिवस्तिष्ठतु ।
कण्ठे वसवस्तिष्ठन्तु । वक्त्रे सरस्वती तिष्ठतु ।
नासिकयोर्वायुस्तिष्ठतु । नयनयोश्चन्द्रादित्यौ तिष्ठेताम् ।
कर्णयोरश्विनौ तिष्ठेताम् ।
ललाटे रुद्रास्तिष्ठन्तु । मूर्ध्न्यादित्यास्तिष्ठन्तु ।
शिरसि महादेवस्तिष्ठतु । शिखायां वामदेवस्तिष्ठतु ।
पृष्ठे पिनाकी तिष्ठतु । पुरतश्शूली तिष्ठतु ।
पार्श्वयोश्शिवाशंकरौ तिष्ठेताम् ।
सर्वतो वायुस्तिष्ठतु ।
ततो बहिस्सर्वतोऽग्निज्वालामालाः परिवृतास्तिष्ठतु ।
सर्वेष्वङ्गेषु सर्वादेवता यथास्थानं तिष्ठन्तु ।
माग्ं रक्षन्तु ॥

ओं अ॒ग्निर्मे॑ वा॒चि श्रि॒तः ।
वाग्धृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।

वा॒युर्मे᳚ प्रा॒णे श्रि॒तः ।
प्रा॒णो हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।

सूर्यो॑ मे॒ चक्षुषि श्रि॒तः ।
चक्षु॒र्हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।

च॒न्द्रमा॑ मे॒ मन॑सि श्रि॒तः ।
मनो॒ हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।

दिशो॑ मे॒ श्रोत्रे᳚ श्रि॒ताः ।
श्रोत्र॒ग्ं॒ हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।

आपो॑ मे॒ रेत॑सि श्रि॒ताः ।
रेतो॒ हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।

पृ॒थि॒वी मे॒ शरी॑रे श्रि॒ता ।
शरी॑र॒ग्ं॒ हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।

ओ॒ष॒धि॒व॒न॒स्प॒तयो॑ मे॒ लोम॑सु श्रि॒ताः ।
लोमा॑नि॒ हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।

इन्द्रो॑ मे॒ बले᳚ श्रि॒तः ।
बल॒ग्ं॒ हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।

प॒र्जन्यो॑ मे मू॒र्ध्नि श्रि॒तः ।
मू॒र्धा हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।

ईशा॑नो मे म॒न्यौ श्रि॒तः ।
म॒न्युर्हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।

आ॒त्मा म॑ आ॒त्मनि॑ श्रि॒तः ।
आ॒त्मा हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।

पुन॑र्म आ॒त्मा पुन॒रायु॒रागा᳚त् ।
पुनः॑ प्रा॒णः पुन॒राकू॑त॒मागा᳚त् ।

वै॒श्वा॒न॒रो र॒श्मिभि॑र्वावृधा॒नः ।
अ॒न्तस्ति॑ष्ठत्व॒मृत॑स्य गो॒पाः ॥

अस्य श्री रुद्राध्याय प्रश्न महामंत्रस्य अघोर ऋषिः, अनुष्टुप् छंदः, संकर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता । नमः शिवायेति बीजम् । शिवतरायेति शक्तिः । महादेवायेति कीलकम् । श्री सांबसदाशिव प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥

ओं अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः ।
दर्शपूर्णमासात्मने तर्जनीभ्यां नमः ।
चातुर्मास्यात्मने मध्यमाभ्यां नमः ।
निरूढपशुबन्धात्मने अनामिकाभ्यां नमः ।
ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः ।
सर्वक्रत्वात्मने करतलकरपृष्ठाभ्यां नमः ।

अग्निहोत्रात्मने हृदयाय नमः ।
दर्शपूर्णमासात्मने शिरसे स्वाहा ।
चातुर्मास्यात्मने शिखायै वषट् ।
निरूढपशुबन्धात्मने कवचाय हुम् ।
ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट् ।
सर्वक्रत्वात्मने अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बंधः ।

ध्यानं ॥
आपाताळ नभः स्थलांत भुवन ब्रह्मांडमाविस्फुर-
ज्ज्योतिः स्फाटिक लिंग मौळिविलसत् पूर्णेंदु वांतामृतैः ।
अस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकान् जपन्
ध्यायेदीप्सितसिद्धये ध्रुवपदं विप्रोऽभिषिंचेच्छिवम् ॥

ब्रह्मांड व्याप्तदेहाः भसित हिमरुचा भासमाना भुजंगैः
कंठे कालाः कपर्दाः कलित शशिकलाश्चंड कोदंड हस्ताः ॥
त्र्यक्षा रुद्राक्षमालाः सललितवपुषाश्शांभवा मूर्तिभेदाः
रुद्राः श्रीरुद्रसूक्त प्रकटित विभवाः नः प्रयच्छंतु सौख्यम् ॥

ओं ग॒णानां᳚ त्वा ग॒णप॑तिग्ं हवामहे
क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒
आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥
महागणपतये॒ नमः ॥

ओं शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च मे य॒न्ता च मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒ऽमृतं॑ च मेऽय॒क्ष्मं च॒ मेऽना॑मयच्च मे जी॒वातुश्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं च मे सु॒गं च॑ मे॒ शय॑नं च मे सू॒षा च॑ मे सु॒दिनं॑ च मे ॥

ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

———————-

अनुबंधं – शिवोपासन मंत्राः ।

निध॑नपतये॒ नमः । निध॑नपतान्तिकाय॒ नमः ।
ऊर्ध्वाय॒ नमः । ऊर्ध्वलिङ्गाय॒ नमः ।
हिरण्याय॒ नमः । हिरण्यलिङ्गाय॒ नमः ।
सुवर्णाय॒ नमः । सुवर्णलिङ्गाय॒ नमः ।
दिव्याय॒ नमः । दिव्यलिङ्गाय॒ नमः ।
भवाय॒ नमः । भवलिङ्गाय॒ नमः ।
शर्वाय॒ नमः । शर्वलिङ्गाय॒ नमः ।
शिवाय॒ नमः । शिवलिङ्गाय॒ नमः ।
ज्वलाय॒ नमः । ज्वललिङ्गाय॒ नमः ।
आत्माय॒ नमः । आत्मलिङ्गाय॒ नमः ।
परमाय॒ नमः । परमलिङ्गाय॒ नमः ।

एतथ्सोमस्य॑ सूर्य॒स्य॒ सर्वलिङ्गग्ग्॑ स्थाप॒य॒ति॒ पाणिमन्त्रं॑ पवि॒त्रम् ॥
स॒द्योजा॒तं प्र॑पद्या॒मि स॒द्योजा॒ताय॒ वै नमो॒ नमः॑ ।
भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वोद्भ॑वाय॒ नमः॑ ॥

वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नम॑श्श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒स्सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ ॥

अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥

तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥

ईशानस्स॑र्वविद्या॒ना॒मीश्वरस्सर्व॑ भूता॒नां॒ ब्रह्माऽधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *