छोड़कर सामग्री पर जाएँ

Datta Hrudayam in Hindi – श्री दत्त हृदयम्

Sri Datta HrudayamPin

Datta Hrudayam is a powerful devotional sloka of Lord Dattatreya. Get Sri Datta Hrudayam in Hindi Pdf Lyrics here and chant it with devotion for the grace of Lord Dattatreya.

Datta Hrudayam in Hindi – श्री दत्त हृदयम् 

दत्तं सनातनं नित्यं निर्विकल्पं निरामयम् ।
हरिं शिवं महादेवं सर्वभूतोपकारकम् ॥ १ ॥

नारायणं महाविष्णुं सर्गस्थित्यन्तकारणम् ।
निराकारं च सर्वेशं कार्तवीर्यवरप्रदम् ॥ २ ॥

अत्रिपुत्रं महातेजं मुनिवन्द्यं जनार्दनम् ।
द्रां बीजं वरदं शुद्धं ह्रीं बीजेन समन्वितम् ॥ ३ ॥

त्रिगुणं त्रिगुणातीतं त्रियामावतिमौलिकम् ।
रामं रमापतिं कृष्णं गोविन्दं पीतवाससम् ॥ ४ ॥

दिगम्बरं नागहारं व्याघ्रचर्मोत्तरीयकम् ।
भस्मगन्धादिलिप्ताङ्गं मायामुक्तं जगत्पतिम् ॥ ५ ॥

निर्गुणं च गुणोपेतं विश्वव्यापिनमीश्वरम् ।
ध्यात्वा देवं महात्मानं विश्ववन्द्यं प्रभुं गुरुम् ॥ ६ ॥

किरीटकुण्डलाभ्यां च युक्तं राजीवलोचनम् ।
चन्द्रानुजं चन्द्रवक्त्रं रुद्रं इन्द्रादिवन्दितम् ॥ ७ ॥

नारायण विरूपाक्ष दत्तात्रेय नमोस्तु ते ।
अनन्त कमलाकान्त औदुम्बरस्थित प्रभो ॥ ८ ॥

निरञ्जन महायोगिन् दत्तात्रेय नमोस्तु ते ।
महाबाहो मुनिमणे सर्वविद्याविशारद ॥ ९ ॥

स्थावरं जङ्गमात्मानं दत्तात्रेय नमोस्तु ते ।
ऐन्द्र्यां पातु महावीर्यो वाह्न्यां प्रणवपूर्वकम् ॥ १० ॥

याम्यां दत्तात्रिजो रक्षेन्निरृत्यां भक्तवत्सलः ।
प्रतीच्यां पातु योगीशो योगिनां हृदये स्थितः ॥ ११ ॥

अनिल्यां वरदः शंभुः कौबेर्यां जगतः प्रभुः ।
ऐशान्यां पातु मे रामो ऊर्ध्वं पातु महामुनिः ॥ १२ ॥

षडक्षरो महामन्त्रः पात्वधस्ताज्जगत्पिता ।
ऐश्वर्यपङ्क्तिदो रक्षेद्यदुराजवरप्रदः ॥ १३ ॥

अकारादि क्षकारान्तः सदा रक्षेत् विभुः स्वयम् ।
आदिनाथस्य दत्तस्य हृदयं सर्वकामदम् ॥ १४ ॥

दत्तं दत्तं पुनर्दत्तं यो वदेद्भक्तिसम्युतः ।
तस्य पापानि सर्वानि क्षयं यान्ति न सम्शयः ॥ १५ ॥

यदिदं पठते नित्यं हृदयं सर्वकामदम् ।
पिशाच शाकिनी भूता डाकिनी काकिनी तथा ॥ १६ ॥

ब्रह्मराक्षसवेतालाक्षोटिङ्गा बालभूतकः ।
गच्छन्ति पठनादेव नात्र कार्या विचारणा ॥ १७ ॥

अपवर्गप्रदं साक्षात् मनोरथप्रपूरकम् ।
एकवारं द्विवारं च त्रिवारं च पठेन्नरः ।
जन्ममृत्यूदधिं तीर्थ्वा सुखं प्राप्नोति भक्तिमान् ॥ १८ ॥

इति श्री दत्त हृदयम् ॥

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *