छोड़कर सामग्री पर जाएँ

Varahi Nigrahashtakam in Hindi – श्री वाराही निग्रहाष्टकम्

Varahi NigrahashtakamPin

Varahi Nigrahashtakam is an eight stanza prayer to Varahi Devi seeking her blessings, and for victory over enemies and all others including any obstacles that stand in the way of your progress. Varahi Anugraha Ashtakam is also another prayer that gives similar results.  Varahi Devi is one of the Saptha Mathrukas (Mother goddesses). She is the consort of Lord Varaha, the boar avatar of Lord Vishnu. Get Varahi Nigrahashtakam in Hindi Lyrics here and chant with devotion for the grace of Goddess Varahi Devi.

Varahi Nigrahashtakam in Hindi – श्री वाराही निग्रहाष्टकम् 

देवि क्रोडमुखि त्वदङ्घ्रिकमलद्वन्द्वानुरक्तात्मने
मह्यं द्रुह्यति यो महेशि मनसा कायेन वाचा नरः ।
तस्याशु त्वदयोग्रनिष्ठुरहलाघातप्रभूतव्यथा-
-पर्यस्यन्मनसो भवन्तु वपुषः प्राणाः प्रयाणोन्मुखाः ॥ १ ॥

देवि त्वत्पदपद्मभक्तिविभवप्रक्षीणदुष्कर्मणि
प्रादुर्भूतनृशंसभावमलिनां वृत्तिं विधत्ते मयि ।
यो देही भुवने तदीयहृदयान्निर्गत्वरैर्लोहितैः
सद्यः पूरयसे कराब्जचषकं वाञ्छाफलैर्मामपि ॥ २ ॥

चण्डोत्तुण्डविदीर्णदुष्टहृदयप्रोद्भिन्नरक्तच्छटा
हालापानमदाट्‍टहासनिनदाटोपप्रतापोत्कटम् ।
मातर्मत्परिपन्थिनामपहृतैः प्राणैस्त्वदङ्घ्रिद्वयं
ध्यानोड्डामरवैभवोदयवशात् सन्तर्पयामि क्षणात् ॥ ३ ॥

श्यामां तामरसाननाङ्घ्रिनयनां सोमार्धचूडां जग-
-त्त्राणव्यग्रहलायुधाग्रमुसलां सन्त्रासमुद्रावतीम् ।
ये त्वां रक्तकपालिनीं हरवरारोहे वराहाननां
भावैः सन्दधते कथं क्षणमपि प्राणन्ति तेषां द्विषः ॥ ४ ॥

विश्वाधीश्वरवल्लभे विजयसे या त्वं नियन्त्रात्मिका
भूतानां पुरुषायुषावधिकरी पाकप्रदाकर्मणाम् ।
त्वां याचे भवतीं किमप्यवितथं यो मद्विरोधीजन-
-स्तस्यायुर्मम वाञ्छितावधिभवेन्मातस्तवैवाज्ञया ॥ ५ ॥

मातः सम्यगुपासितुं जडमतिस्त्वां नैव शक्नोम्यहं
यद्यप्यन्वितदैशिकाङ्घ्रिकमलानुक्रोशपात्रस्य मे ।
जन्तुः कश्चन चिन्तयत्यकुशलं यस्तस्य तद्वैशसं
भूयाद्देवि विरोधिनो मम च ते श्रेयः पदासङ्गिनः ॥ ६ ॥

वाराही व्यथमानमानसगलत्सौख्यं तदाशाबलिं
सीदन्तं यमप्राकृताध्यवसितं प्राप्ताखिलोत्पादितम् ।
क्रन्दद्बन्धुजनैः कलङ्कितकुलं कण्ठव्रणोद्यत्कृमिं
पश्यामि प्रतिपक्षमाशु पतितं भ्रान्तं लुठन्तं मुहुः ॥ ७ ॥

वाराही त्वमशेषजन्तुषु पुनः प्राणात्मिका स्पन्दसे
शक्तिव्याप्तचराचरा खलु यतस्त्वामेतदभ्यर्थये ।
त्वत्पादाम्बुजसङ्गिनो मम सकृत्पापं चिकीर्षन्ति ये
तेषां मा कुरु शङ्करप्रियतमे देहान्तरावस्थितिम् ॥ ८ ॥

इति श्री वाराही निग्रहाष्टकम् ।
 

अन्य श्री वाराही स्तोत्र देखें।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *