छोड़कर सामग्री पर जाएँ

Shyamala Navaratnamalika Stotram in Hindi – श्यामला नवरत्नमालिका स्तवम्

Shyamala Navaratnamalika stotram or stavam lyrics pdfPin

Shyamala Navaratnamalika Stotram is a devotional hymn for worshipping Goddess Shyamala Devi. It was composed by Shri Adi Shankaracharya. Get Shri Shyamala Navaratnamalika Stotram in Hindi Lyrics Pdf here and chant it for the grace of Goddess Shyamala Devi.

Shyamala Navaratnamalika Stotram in Hindi – श्यामला नवरत्नमालिका स्तवम् 

ध्यानश्लोकौ

कचाञ्चितविपञ्चिकां कुटिलकुन्तलालङ्कृतां
कुशेशयनिवेशिनीं कुटिलचित्तविद्वेषिणीम् ।
मदालसगतिप्रियां मनसिजारिराज्यश्रियं
मतङ्गकुलकन्यकां मधुरभाषिणीमाश्रये ॥

कुन्दमुकुलाग्रदन्तां कुङ्कुमपङ्केन लिप्तकुचभाराम् ।
आनीलनीलदेहामम्बामखिलाण्डनायिकां वन्दे ॥

अथ स्तोत्रम्

ओङ्कारपञ्जरशुकीमुपनिषदुद्यानकेलिकलकण्ठीम् ।
आगमविपिनमयूरीमार्यामन्तर्विभावये गौरीम् ॥ १ ॥

दयमानदीर्घनयनां देशिकरूपेण दर्शिताभ्युदयाम् ।
वामकुचनिहितवीणां वरदां सङ्गीतमातृकां वन्दे ॥ २ ॥

श्यामलिमसौकुमार्यां सौन्दर्यानन्दसम्पदुन्मेषां
तरुणिमकरुणापूरां मदजलकल्लोललोचनां वन्दे ॥ ३ ॥

नखमुखमुखरितवीणानादरसास्वादनवनवोल्लासम् ।
मुखमम्ब मोदयतु मां मुक्ताताटङ्कमुग्द्धहसितं ते ॥ ४ ॥

सरिगमपधनिरतां तां वीणासङ्क्रान्तकान्तहस्तान्ताम् ।
शान्तां मृदुलस्वान्तां कुचभरतान्तां नमामि शिवकान्ताम् ॥ ५ ॥

अवटुतटघटितचूलीताडिततालीपलाशताटङ्काम् ।
वीणावादनलेशाकम्पितशीर्षां नमामि मातङ्गीम् ॥ ६ ॥

वीणारवानुषङ्गं विकलकचामोदमाधुरीभृङ्गम् ।
करुणापूरतरङ्गं कलये मातङ्गकन्यकापाङ्गम् ॥ ७ ॥

मेचकमासेचनकं मिथ्यादृष्टान्तमद्ध्यभागं ते ।
मातस्तव स्वरूपं मङ्गलसङ्गीतसौरभं वन्दे ॥ ८ ॥

मणिभङ्गमेचकाङ्गीं मातङ्गीं नौमि सिद्धमातङ्गीम् ।
यौवनवनसारङ्गीं सङ्गीताम्भोरुहानुभवभृङ्गीम् ॥ ९ ॥

नवरत्नमाल्यमेतद्रचितं मातङ्गकन्यकाऽऽभरणम् ।
यः पठति भक्तियुक्तस्सफलस्स भवति शिवाकृपापात्रम् ॥ १० ॥

प्रपञ्चपञ्चीकृतकनिदानपदपांसवे ।
वीणावेणुशुकालापप्रवीणमहसे नमः ॥ ११ ॥

इति श्यामलानवरत्नमालिकास्तवः सम्पूर्णः ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *