छोड़कर सामग्री पर जाएँ

Shakambhari Ashtakam in Hindi – श्री शाकम्भर्यष्टकम्

Shakambhari Ashtakam or SakambaryastakamPin

Shakambhari Ashtakam is an 8 stanza stotram for worshipping Goddess Shakambhari Devi. It was composed by Sri Adi Shankaracharya. Get Sri Shakambhari Ashtakam in Hindi Pdf Lyrics here and chant it for the grace of goddess Shakambari Devi.

Shakambhari Ashtakam in Hindi – श्री शाकम्भर्यष्टकम् 

शक्तिः शाम्भवविश्वरूपमहिमा माङ्गल्यमुक्तामणि-
र्घण्टा शूलमसिं लिपिं च दधतीं दक्षैश्चतुर्भिः करैः ।
वामैर्बाहुभिरर्घ्यशेषभरितं पात्रं च शीर्षं तथा
चक्रं खेटकमन्धकारिदयिता त्रैलोक्यमाता शिवा ॥ १ ॥

देवी दिव्यसरोजपादयुगले मञ्जुक्वणन्नूपुरा
सिंहारूढकलेवरा भगवती व्याघ्राम्बरावेष्टिता ।
वैडूर्यादिमहार्घरत्नविलसन्नक्षत्रमालोज्ज्वला
वाग्देवी विषमेक्षणा शशिमुखी त्रैलोक्यमाता शिवा ॥ २ ॥

ब्रह्माणी च कपालिनी सुयुवती रौद्री त्रिशूलान्विता
नाना दैत्यनिबर्हिणी नृशरणा शङ्खासिखेटायुधा ।
भेरीशङ्खक्ष् मृदङ्गक्ष् घोषमुदिता शूलिप्रिया चेश्वरी
माणिक्याढ्यकिरीटकान्तवदना त्रैलोक्यमाता शिवा ॥ ३ ॥

वन्दे देवि भवार्तिभञ्जनकरी भक्तप्रिया मोहिनी
मायामोहमदान्धकारशमनी मत्प्राणसञ्जीवनी ।
यन्त्रं मन्त्रजपौ तपो भगवती माता पिता भ्रातृका
विद्या बुद्धिधृती गतिश्च सकलत्रैलोक्यमाता शिवा ॥ ४ ॥

श्रीमातस्त्रिपुरे त्वमब्जनिलया स्वर्गादिलोकान्तरे
पाताले जलवाहिनी त्रिपथगा लोकत्रये शङ्करी ।
त्वं चाराधकभाग्यसम्पदविनी श्रीमूर्ध्नि लिङ्गाङ्किता
त्वां वन्दे भवभीतिभञ्जनकरीं त्रैलोक्यमातः शिवे ॥ ५ ॥

श्रीदुर्गे भगिनीं त्रिलोकजननीं कल्पान्तरे डाकिनीं
वीणापुस्तकधारिणीं गुणमणिं कस्तूरिकालेपनीम् ।
नानारत्नविभूषणां त्रिनयनां दिव्याम्बरावेष्टितां
वन्दे त्वां भवभीतिभञ्जनकरीं त्रैलोक्यमातः शिवे ॥ ६ ॥

नैरृत्यां दिशि पत्रतीर्थममलं मूर्तित्रये वासिनीं
साम्मुख्या च हरिद्रतीर्थमनघं वाप्यां च तैलोदकम् ।
गङ्गादित्रयसङ्गमे सकुतुकं पीतोदके पावने
त्वां वन्दे भवभीतिभञ्जनकरीं त्रैलोक्यमातः शिवे ॥ ७ ॥

द्वारे तिष्ठति वक्रतुण्डगणपः क्षेत्रस्य पालस्ततः
शक्रेड्या च सरस्वती वहति सा भक्तिप्रिया वाहिनी ।
मध्ये श्रीतिलकाभिधं तव वनं शाकम्भरी चिन्मयी
त्वां वन्दे भवभीतिभञ्जनकरीं त्रैलोक्यमातः शिवे ॥ ८ ॥

शाकम्भर्यष्टकमिदं यः पठेत्प्रयतः पुमान् ।
स सर्वपापविनिर्मुक्तः सायुज्यं पदमाप्नुयात् ॥ ९ ॥

इति श्रीमच्छङ्कराचार्यविरचितं शाकम्भर्यष्टकं सम्पूर्णम् ॥

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *