छोड़कर सामग्री पर जाएँ

Puja Vidhi in Hindi – पूजा विधि – पूर्वाङ्गम्

Puja Vidhi or Pooja Vidhanam or Poorvangam is the basic Hindu ritual procedure. Generally, this is followed by Ganapathi Pooja. Get Nitya Puja Vidhi in Hindi here and perform the pooja with devotion.

Puja Vidhi in Hindi – पूजा विधि – पूर्वाङ्गम् 

श्री महागणाधिपतये नमः ।
श्री गुरुभ्यो नमः ।
हरिः ओं ।

शुचिः –

अपवित्रः पवित्रोवा सर्वावस्थां गतोऽपि वा
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥
पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्ष ॥

(नमस्कारं)

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशान्तये ॥

अगजानन पद्मार्कं गजाननमहर्निशम् ।
अनेकदं तं भक्तानां एकदन्तमुपास्महे ॥

दे॒वीं वाच॑मजनयन्त दे॒वास्तां वि॒श्वरू॑पाः प॒शवो॑ वदन्ति ।
सा नो॑ म॒न्द्रेष॒मूर्जं॒ दुहा॑ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥

यश्शिवो नाम रूपाभ्यां या देवी सर्व मङ्गला ।
तयोः संस्मरणान्नित्यं सर्वदा जय मङ्गलम् ॥

तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुस्साक्षात् परब्रह्म तस्मै श्री गुरवे नमः ॥

लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः ।
एषां इन्दीवरश्यामो हृदयस्थो जनार्दनः ॥

सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यम्बके गौरी नारायणि नमोस्तु ते ॥

श्री लक्ष्मी नारायणाभ्यां नमः । उमा महेश्वराभ्यां नमः ।
वाणी हिरण्यगर्भाभ्यां नमः । शची पुरन्दराभ्यां नमः ।
अरुन्धती वशिष्ठाभ्यां नमः । श्री सीतारामाभ्यां नमः ।
माता पितृभ्यो नमः । सर्वेभ्यो महाजनेभ्यो नमः ।

आचम्य –

ओं केशवाय स्वाहा ।
ओं नारायणाय स्वाहा ।
ओं माधवाय स्वाहा ।
ओं गोविन्दाय नमः । ओं विष्णवे नमः ।
ओं मधुसूदनाय नमः । ओं त्रिविक्रमाय नमः ।
ओं वामनाय नमः । ओं श्रीधराय नमः ।
ओं हृषीकेशाय नमः । ओं पद्मनाभाय नमः ।
ओं दामोदराय नमः । ओं सङ्कर्षणाय नमः ।
ओं वासुदेवाय नमः । ओं प्रद्युम्नाय नमः ।
ओं अनिरुद्धाय नमः । ओं पुरुषोत्तमाय नमः ।
ओं अथोक्षजाय नमः । ओं नारसिंहाय नमः ।
ओं अच्युताय नमः । ओं जनार्दनाय नमः ।
ओं उपेन्द्राय नमः । ओं हरये नमः ।
ओं श्री कृष्णाय नमः ।

दीपाराधनम् –

दीपस्त्वं ब्रह्म रूपोसि ज्योतिषां प्रभुरव्ययः ।
सौभाग्यं देहि पुत्रांश्च सर्वान्कामांश्च देहि मे ॥

भो दीप देवि रूपस्त्वं कर्म साक्षी ह्यविघ्नकृत् ।
यावत्पूजां करिष्यामि तावत्वं सुस्थिरो भव ॥

दीपाराधन मुहूर्तः सुमुहूर्तोऽस्तु ।
पूजार्थे हरिद्रा कुङ्कुम विलेपनं करिष्ये ।

भूतोच्छाटनम् –

ओं उत्तिष्ठन्तु भूत पिशाचाः य एते भूमि भारकाः ।
एतेषामविरोधेन ब्रह्मकर्म समारभे ॥

अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ।
ये भूता विघ्नकर्तारस्ते गच्छन्तु शिवाऽज्ञया ॥

प्राणायामम् –

ओं भूः । ओं भुवः । ओं सुवः । ओं महः ।
ओं जनः । ओं तपः । ओं सत्यं ।
ओं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ।
ओमापो ज्योती रसोमृतं ब्रह्म भूर्भुवस्सुवरोम् ।

सङ्कल्पम् –

मम उपात्त समस्त दुरितक्षय द्वारा श्री परमेश्वरमुद्दिश्य श्री परमेश्वर प्रीत्यर्थं शुभाभ्यां शुभे शोभने मुहूर्ते श्री महाविष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीय परार्थे श्वेतवराह कल्पे वैवस्वत मन्वन्तरे कलियुगे प्रथमपादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिण दिग्भागे श्रीशैलस्य ___ प्रदेशे ___, ___ नद्योः मध्य प्रदेशे लक्ष्मी निवास गृहे समस्त देवता ब्राह्मण आचार्य हरि हर गुरु चरण सन्निधौ अस्मिन् वर्तमने व्यावहरिक चान्द्रमानेन श्री ____ नाम संवत्सरे ___ अयने ___ ऋतौ ___ मासे ___ पक्षे ___ तिथौ ___ वासरे ___ नक्षत्रे ___ योगे ___ करण एवं गुण विशेषण विशिष्टायां शुभतिथौ श्रीमान् ___ गोत्रोद्भवस्य ___ नामधेयस्य (मम धर्मपत्नी श्रीमतः ___ गोत्रस्य ___ नामधेयः समेतस्य) मम/अस्माकं सहकुटुम्बस्य क्षेम स्थैर्य धैर्य वीर्य विजय अभय आयुः आरोग्य ऐश्वर अभिवृद्ध्यर्थं धर्म अर्थ काम मोक्ष चतुर्विध पुरुषार्थ फल सिद्ध्यर्थं धन कनक वस्तु वाहन समृद्ध्यर्थं सर्वाभीष्ट सिद्ध्यर्थं श्री _____ उद्दिश्य श्री _____ प्रीत्यर्थं सम्भवद्भिः द्रव्यैः सम्भवद्भिः उपचारैश्च सम्भवता नियमेन सम्भविता प्रकारेण यावच्छक्ति ध्यान आवाहनादि षोडशोपचार* पूजां करिष्ये ॥

आदौ निर्विघ्नेन पूजा परिसमाप्त्यर्थं श्री महागणपति पूजां करिष्ये ।

तदङ्ग कलशाराधनं करिष्ये ।

कलशाराधनम् –

कलशे गन्ध पुष्पाक्षतैरभ्यर्च्य ।
कलशे उदकं पूरयित्वा ।
कलशस्योपरि हस्तं निधाय ।
ओं कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः
मूले तत्र स्थितो ब्रह्म मध्ये मातृगणाश्रिता ।
कुक्षौतु सागराः सर्वे सप्तद्वीपा वसुन्धरा
ऋग्वेदोऽथ यजुर्वेदो सामवेदो ह्यथर्वणः ।
अङ्गैश्च सहिताः सर्वे कलशाम्बु समाश्रिताः ।
ओं आक॒लशे᳚षु धावति प॒वित्रे॒ परि॑षिच्यते ।

उ॒क्थैर्य॒ज्ञेषु॑ वर्धते

आपो॒ वा इ॒दग्‌ं सर्वं॒ विश्वा॑ भू॒तान्याप॑:
प्रा॒णा वा आप॑: प॒शव॒ आपोऽन्न॒मापोऽमृ॑त॒माप॑:
स॒म्राडापो॑ वि॒राडाप॑: स्व॒राडाप॒श्छन्दा॒ग्॒‍स्यापो॒
ज्योती॒ग्॒‍ष्यापो॒ यजू॒ग्॒‍ष्याप॑: स॒त्यमाप॒:
सर्वा॑ दे॒वता॒ आपो॒ भूर्भुव॒: सुव॒राप॒ ओम् ।
गङ्गे च यमुने कृष्णे गोदावरी सरस्वती ।
नर्मदे सिन्धु कावेरी जलेस्मिन् सन्निधिं कुरु ।
कावेरी तुङ्गभद्रा च कृष्णवेणी च गौतमी ।
भागीरथी च विख्याताः पञ्च गङ्गाः प्रकीर्तिताः ।
आयान्तु श्री ____ पूजार्थं मम दुरित क्षयकारकाः
ओं ओं ओं कलशोदकेन पूजा द्रव्याणि सम्प्रोक्ष्य,
देवं सम्प्रोक्ष्य, आत्मानं च सम्प्रोक्ष्य ॥

शङ्ख पूजा –

कलशोदकेन शङ्खं पूरयित्वा ।
शङ्खे गन्धकुङ्कुमपुष्पतुलसीपत्रैरलङ्कृत्य ।
शङ्खं चन्द्रार्क दैवतं मध्ये वरुण देवताम् ।
पृष्ठे प्रजापतिं विन्द्यादग्रे गङ्गा सरस्वतीम् ॥

त्रैलोक्येयानि तीर्थानि वासुदेवस्यदद्रया ।
शङ्खे तिष्ठन्तु विप्रेन्द्रा तस्मात् शङ्खं प्रपूजयेत् ॥

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ।
पूजितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तु ते ॥

गर्भादेवारिनारीणां विशीर्यन्ते सहस्रधा ।
नवनादेनपाताले पाञ्चजन्य नमोऽस्तु ते ॥

ओं शङ्खाय नमः । ओं धवलाय नमः ।
ओं पाञ्चजन्याय नमः । ओं शङ्ख देवताभ्यो नमः ।
सकल पूजार्थे अक्षतान् समर्पयामि ॥

घण्ट पूजा –

ओं जयध्वनि मन्त्रमातः स्वाहा ।
घण्टदेवताभ्यो नमः ।
सकलोपचार पूजार्थे अक्षतान् समर्पयामि ।

घण्टनादम् ।

आगमार्थं तु देवानां गमनार्थं तु राक्षसाम् ।
घण्टारवं करोम्यादौ देव आह्वान लाञ्चनम् ॥

इति घण्टानादं कृत्वा ॥

“Puja Vidhi in Hindi – पूजा विधि – पूर्वाङ्गम्” पर 3 विचार

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *