छोड़कर सामग्री पर जाएँ

Panchayudha Stotram in Sanskrit / Hindi – पंचायुध स्तोत्र

Vishnu Panchayudha StotramPin

Panchayudha Stotram or Vishnu Panchayudha Stotram is a prayer to the Panchayudha’s or the five weapons of Lord Vishnu, namely Sudarshana Chakra, Pancha Janya Shankha (Conch), Kaumodaki or Gada, Nandakam or Sword, and Sarangam or Bow. Of the five weapons, Sudarshana Chakra and Gada were made by Vishwakarma, Sarangam by Lord Brahma, and Shankha was obtained by Lord Krishna after killing Asura Panchaja. Get Sri Vishnu Panchayudha Stotram in Sanskrit or Hindi Pdf Lyrics here and chant it with devotion for the grace of Lord Vishnu.

Panchayudha Stotram in Sanskrit / Hindi – पंचायुध स्तोत्र 

स्फुरत्सहस्रारशिखातितीव्रं
सुदर्शनं भास्करकोटितुल्यम् ।
सुरद्विषां प्राणविनाशि विष्णोः
चक्रं सदाहं शरणं प्रपद्ये ॥ १ ॥

विष्णोर्मुखोत्थानिलपूरितस्य
यस्य ध्वनिर्दानवदर्पहन्ता ।
तं पाञ्चजन्यं शशिकोटिशुभ्रं
शङ्खं सदाहं शरणं प्रपद्ये ॥ २ ॥

हिरण्मयीं मेरुसमानसारां
कौमोदकीं दैत्यकुलैकहन्त्रीम् ।
वैकुण्ठवामाग्रकराग्रमृष्टां
गदां सदाहं शरणं प्रपद्ये ॥ ३ ॥

यज्ज्यानिनादश्रवणात्सुराणां
चेतांसि निर्मुक्तभयानि सद्यः ।
भवन्ति दैत्याशनिबाणवर्षैः
शार्ङ्गं सदाहं शरणं प्रपद्ये ॥ ४ ॥

रक्षोऽसुराणां कठिनोग्रकण्ठ-
-च्छेदक्षरत्‍क्षोणित दिग्धसारम् ।
तं नन्दकं नाम हरेः प्रदीप्तं
खड्गं सदाहं शरणं प्रपद्ये ॥ ५ ॥

इमं हरेः पञ्चमहायुधानां
स्तवं पठेद्योऽनुदिनं प्रभाते ।
समस्त दुःखानि भयानि सद्यः
पापानि नश्यन्ति सुखानि सन्ति ॥ ६ ॥

वने रणे शत्रु जलाग्निमध्ये
यदृच्छयापत्सु महाभयेषु ।
पठेत्विदं स्तोत्रमनाकुलात्मा
सुखीभवेत्तत्कृत सर्वरक्षः ॥ ७ ॥

अधिक श्लोकाः

यच्चक्रशङ्खं गदखड्गशार्ङ्गिणं
पीताम्बरं कौस्तुभवत्सलाञ्छितम् ।
श्रियासमेतोज्ज्वलशोभिताङ्गं
विष्णुं सदाऽहं शरणं प्रपद्ये ॥

जले रक्षतु वाराहः स्थले रक्षतु वामनः ।
अटव्यां नारसिंहश्क्ष्च सर्वतः पातु केशवः ॥

इति पंचायुध स्तोत्रम् ॥

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *