Mangal Ashtottara Shatanama Stotra is the 108 names of Mangal or Kuja or Angaraka composed in the form of a hymn. Get Sri Mangal Ashtottara Shatanama Stotra in English lyrics here and chant it with devotion for the grace of Lord Angarak.
Mangal Ashtottara Shatanama Stotra in Hindi – मंगल अष्टोत्तर शतनाम स्तोत्र
महीसुतो महाभागो मङ्गलो मङ्गलप्रदः
महावीरो महाशूरो महाबलपराक्रमः ॥ १ ॥
महारौद्रो महाभद्रो माननीयो दयाकरः
मानदोऽमर्षणः क्रूरः तापपापविवर्जितः ॥ २ ॥
सुप्रतीपः सुताम्राक्षः सुब्रह्मण्यः सुखप्रदः
वक्रस्तम्भादिगमनो वरेण्यो वरदः सुखी ॥ ३ ॥
वीरभद्रो विरूपाक्षो विदूरस्थो विभावसुः
नक्षत्रचक्रसञ्चारी क्षत्रपः क्षात्रवर्जितः ॥ ४ ॥
क्षयवृद्धिविनिर्मुक्तः क्षमायुक्तो विचक्षणः
अक्षीणफलदः चक्षुर्गोचरश्शुभलक्षणः ॥ ५ ॥
वीतरागो वीतभयो विज्वरो विश्वकारणः
नक्षत्रराशिसञ्चारो नानाभयनिकृन्तनः ॥ ६ ॥
कमनीयो दयासारः कनत्कनकभूषणः
भयघ्नो भव्यफलदो भक्ताभयवरप्रदः ॥ ७ ॥
शत्रुहन्ता शमोपेतः शरणागतपोषकः
साहसः सद्गुणाध्यक्षः साधुः समरदुर्जयः ॥ ८ ॥
दुष्टदूरः शिष्टपूज्यः सर्वकष्टनिवारकः
दुश्चेष्टवारको दुःखभञ्जनो दुर्धरो हरिः ॥ ९ ॥
दुःस्वप्नहन्ता दुर्धर्षो दुष्टगर्वविमोचकः
भरद्वाजकुलोद्भूतो भूसुतो भव्यभूषणः ॥ १० ॥
रक्ताम्बरो रक्तवपुर्भक्तपालनतत्परः
चतुर्भुजो गदाधारी मेषवाहो मिताशनः ॥ ११ ॥
शक्तिशूलधरश्शक्तः शस्त्रविद्याविशारदः
तार्किकः तामसाधारः तपस्वी ताम्रलोचनः ॥ १२ ॥
तप्तकाञ्चनसङ्काशो रक्तकिञ्जल्कसन्निभः
गोत्राधिदेवो गोमध्यचरो गुणविभूषणः ॥ १३ ॥
असृजङ्गारकोऽवन्तीदेशाधीशो जनार्दनः
सूर्ययाम्यप्रदेशस्थो यौवनो याम्यदिङ्मुखः ॥ १४ ॥
त्रिकोणमण्डलगतः त्रिदशाधिपसन्नुतः
शुचिः शुचिकरः शूरो शुचिवश्यः शुभावहः ॥ १५ ॥
मेषवृश्चिकराशीशो मेधावी मितभाषणः
सुखप्रदः सुरूपाक्षः सर्वाभीष्टफलप्रदः ॥ १६ ॥
इति श्री मंगल अष्टोत्तर शतनाम स्तोत्र ||