छोड़कर सामग्री पर जाएँ

Lalitha Trishati Stotra in Hindi – श्री ललिता त्रिशती स्तोत्र

Lalitha Trishati Stotram or Lalita Trisati StotraPin

Lalitha Trishati Stotra recounts the 300 names of the goddess Lalitha Devi (20 names each from each of the 15 letters that form the Pancha dasakshari mantra). This mantra is “Ka- aa-ee-la-hrim Ha –sa-ka-ha-la-hrim Sa-ka-la-hrim”. Along with Lalitha Sahasranama Stotram, Lalitha Trisati is considered the most powerful and secretive stotras of Goddess Lalitha Devi. Get Sri Lalitha Trishati Stotra in Hindi Pdf Lyrics here and chant the 300 names of Lalitha Devi for her grace.

Lalitha Trishati Stotra in Hindi – श्री ललिता त्रिशती स्तोत्र 

अस्य श्रीललितात्रिशतीस्तोत्र महामन्त्रस्य, भगवान् हयग्रीव ऋषिः, अनुष्टुप् छन्दः, श्रीललितामहात्रिपुरसुन्दरी देवता, ऐं बीजं, सौः शक्तिः, क्लीं कीलकं, मम चतुर्विधपुरुषार्थफलसिद्ध्यर्थे जपे विनियोगः ।
ऐमित्यादिभिरङ्गन्यासकरन्यासाः कार्याः ।

ध्यानम् ।

अतिमधुरचापहस्ता-
-मपरिमितामोदबाणसौभाग्याम् ।
अरुणामतिशयकरुणा-
-मभिनवकुलसुन्दरीं वन्दे ।

श्री हयग्रीव उवाच ।

ककाररूपा कल्याणी कल्याणगुणशालिनी ।
कल्याणशैलनिलया कमनीया कलावती ॥ १ ॥

कमलाक्षी कल्मषघ्नी करुणामृतसागरा ।
कदम्बकाननावासा कदम्बकुसुमप्रिया ॥ २ ॥

कन्दर्पविद्या कन्दर्पजनकापाङ्गवीक्षणा ।
कर्पूरवीटिसौरभ्यकल्लोलितककुप्तटा ॥ ३ ॥

कलिदोषहरा कञ्जलोचना कम्रविग्रहा ।
कर्मादिसाक्षिणी कारयित्री कर्मफलप्रदा ॥ ४ ॥

एकाररूपा चैकाक्षर्येकानेकाक्षराकृतिः ।
एतत्तदित्यनिर्देश्या चैकानन्दचिदाकृतिः ॥ ५ ॥

एवमित्यागमाबोध्या चैकभक्तिमदर्चिता ।
एकाग्रचित्तनिर्ध्याता चैषणारहितादृता ॥ ६ ॥

एलासुगन्धिचिकुरा चैनःकूटविनाशिनी ।
एकभोगा चैकरसा चैकैश्वर्यप्रदायिनी ॥ ७ ॥

एकातपत्रसाम्राज्यप्रदा चैकान्तपूजिता ।
एधमानप्रभा चैजदनेकजगदीश्वरी ॥ ८ ॥

एकवीरदिसंसेव्या चैकप्राभवशालिनी ।
ईकाररूपा चेशित्री चेप्सितार्थप्रदायिनी ॥ ९ ॥

ईदृगित्यविनिर्देश्या चेश्वरत्वविधायिनी ।
ईशानादिब्रह्ममयी चेशित्वाद्यष्टसिद्धिदा ॥ १० ॥

ईक्षित्रीक्षणसृष्टाण्डकोटिरीश्वरवल्लभा ।
ईडिता चेश्वरार्धाङ्गशरीरेशाधिदेवता ॥ ११ ॥

ईश्वरप्रेरणकरी चेशताण्डवसाक्षिणी ।
ईश्वरोत्सङ्गनिलया चेतिबाधाविनाशिनी ॥ १२ ॥

ईहाविरहिता चेशशक्तिरीषत्स्मितानना ।
लकाररूपा ललिता लक्ष्मीवाणीनिषेविता ॥ १३ ॥

लाकिनी ललनारूपा लसद्दाडिमपाटला ।
ललन्तिकालसत्फाला ललाटनयनार्चिता ॥ १४ ॥

लक्षणोज्ज्वलदिव्याङ्गी लक्षकोट्यण्डनायिका ।
लक्ष्यार्था लक्षणागम्या लब्धकामा लतातनुः ॥ १५ ॥

ललामराजदलिका लम्बिमुक्तालताञ्चिता ।
लम्बोदरप्रसूर्लभ्या लज्जाढ्या लयवर्जिता ॥ १६ ॥

ह्रीं‍काररूपा ह्रीं‍कारनिलया ह्रीं‍पदप्रिया ।
ह्रीं‍कारबीजा ह्रीं‍कारमन्त्रा ह्रीं‍कारलक्षणा ॥ १७ ॥

ह्रीं‍कारजपसुप्रीता ह्रीं‍मती ह्रीं‍विभूषणा ।
ह्रीं‍शीला ह्रीं‍पदाराध्या ह्रीं‍गर्भा ह्रीं‍पदाभिधा ॥ १८ ॥

ह्रीं‍कारवाच्या ह्रीं‍कारपूज्या ह्रीं‍कारपीठिका ।
ह्रीं‍कारवेद्या ह्रीं‍कारचिन्त्या ह्रीं ह्रीं‍शरीरिणी ॥ १९ ॥

हकाररूपा हलधृक्पूजिता हरिणेक्षणा ।
हरप्रिया हराराध्या हरिब्रह्मेन्द्रवन्दिता ॥ २० ॥

हयारूढासेविताङ्घ्रिर्हयमेधसमर्चिता ।
हर्यक्षवाहना हंसवाहना हतदानवा ॥ २१ ॥

हत्यादिपापशमनी हरिदश्वादिसेविता ।
हस्तिकुम्भोत्तुङ्गकुचा हस्तिकृत्तिप्रियाङ्गना ॥ २२ ॥

हरिद्राकुङ्कुमादिग्धा हर्यश्वाद्यमरार्चिता ।
हरिकेशसखी हादिविद्या हालामदालसा ॥ २३ ॥

सकाररूपा सर्वज्ञा सर्वेशी सर्वमङ्गला ।
सर्वकर्त्री सर्वभर्त्री सर्वहन्त्री सनातना ॥ २४ ॥

सर्वानवद्या सर्वाङ्गसुन्दरी सर्वसाक्षिणी ।
सर्वात्मिका सर्वसौख्यदात्री सर्वविमोहिनी ॥ २५ ॥

सर्वाधारा सर्वगता सर्वावगुणवर्जिता ।
सर्वारुणा सर्वमाता सर्वाभूषणभूषिता ॥ २६ ॥

ककारार्था कालहन्त्री कामेशी कामितार्थदा ।
कामसञ्जीवनी कल्या कठिनस्तनमण्डला ॥ २७ ॥

करभोरूः कलानाथमुखी कचजिताम्बुदा ।
कटाक्षस्यन्दिकरुणा कपालिप्राणनायिका ॥ २८ ॥

कारुण्यविग्रहा कान्ता कान्तिधूतजपावलिः ।
कलालापा कम्बुकण्ठी करनिर्जितपल्लवा ॥ २९ ॥

कल्पवल्लीसमभुजा कस्तूरीतिलकाञ्चिता ।
हकारार्था हंसगतिर्हाटकाभरणोज्ज्वला ॥ ३० ॥

हारहारिकुचाभोगा हाकिनी हल्यवर्जिता ।
हरित्पतिसमाराध्या हठात्कारहतासुरा ॥ ३१ ॥

हर्षप्रदा हविर्भोक्त्री हार्दसन्तमसापहा ।
हल्लीसलास्यसन्तुष्टा हंसमन्त्रार्थरूपिणी ॥ ३२ ॥

हानोपादाननिर्मुक्ता हर्षिणी हरिसोदरी ।
हाहाहूहूमुखस्तुत्या हानिवृद्धिविवर्जिता ॥ ३३ ॥

हय्यङ्गवीनहृदया हरिगोपारुणांशुका ।
लकाराख्या लतापूज्या लयस्थित्युद्भवेश्वरी ॥ ३४ ॥

लास्यदर्शनसन्तुष्टा लाभालाभविवर्जिता ।
लङ्घ्येतराज्ञा लावण्यशालिनी लघुसिद्धिदा ॥ ३५ ॥

लाक्षारससवर्णाभा लक्ष्मणाग्रजपूजिता ।
लभ्येतरा लब्धभक्तिसुलभा लाङ्गलायुधा ॥ ३६ ॥

लग्नचामरहस्तश्रीशारदापरिवीजिता ।
लज्जापदसमाराध्या लम्पटा लकुलेश्वरी ॥ ३७ ॥

लब्धमाना लब्धरसा लब्धसम्पत्समुन्नतिः ।
ह्रीं‍कारिणी ह्रीं‍काराद्या ह्रीं‍मध्या ह्रीं‍शिखामणिः ॥ ३८ ॥

ह्रीं‍कारकुण्डाग्निशिखा ह्रीं‍कारशशिचन्द्रिका ।
ह्रीं‍कारभास्कररुचिर्ह्रीं‍काराम्भोदचञ्चला ॥ ३९ ॥

ह्रीं‍कारकन्दाङ्कुरिका ह्रीं‍कारैकपरायणा ।
ह्रीं‍कारदीर्घिकाहंसी ह्रीं‍कारोद्यानकेकिनी ॥ ४० ॥

ह्रीं‍कारारण्यहरिणी ह्रीं‍कारावालवल्लरी ।
ह्रीं‍कारपञ्जरशुकी ह्रीं‍काराङ्गणदीपिका ॥ ४१ ॥

ह्रीं‍कारकन्दरासिंही ह्रीं‍काराम्भोजभृङ्गिका ।
ह्रीं‍कारसुमनोमाध्वी ह्रीं‍कारतरुमञ्जरी ॥ ४२ ॥

सकाराख्या समरसा सकलागमसंस्तुता ।
सर्ववेदान्ततात्पर्यभूमिः सदसदाश्रया ॥ ४३ ॥

सकला सच्चिदानन्दा साध्या सद्गतिदायिनी ।
सनकादिमुनिध्येया सदाशिवकुटुम्बिनी ॥ ४४ ॥

सकालाधिष्ठानरूपा सत्यरूपा समाकृतिः ।
सर्वप्रपञ्चनिर्मात्री समनाधिकवर्जिता ॥ ४५ ॥

सर्वोत्तुङ्गा सङ्गहीना सगुणा सकलेष्टदा ।
ककारिणी काव्यलोला कामेश्वरमनोहरा ॥ ४६ ॥

कामेश्वरप्राणनाडी कामेशोत्सङ्गवासिनी ।
कामेश्वरालिङ्गिताङ्गी कामेश्वरसुखप्रदा ॥ ४७ ॥

कामेश्वरप्रणयिनी कामेश्वरविलासिनी ।
कामेश्वरतपःसिद्धिः कामेश्वरमनःप्रिया ॥ ४८ ॥

कामेश्वरप्राणनाथा कामेश्वरविमोहिनी ।
कामेश्वरब्रह्मविद्या कामेश्वरगृहेश्वरी ॥ ४९ ॥

कामेश्वराह्लादकरी कामेश्वरमहेश्वरी ।
कामेश्वरी कामकोटिनिलया काङ्क्षितार्थदा ॥ ५० ॥

लकारिणी लब्धरूपा लब्धधीर्लब्धवाञ्छिता ।
लब्धपापमनोदूरा लब्धाहङ्कारदुर्गमा ॥ ५१ ॥

लब्धशक्तिर्लब्धदेहा लब्धैश्वर्यसमुन्नतिः ।
लब्धवृद्धिर्लब्धलीला लब्धयौवनशालिनी ॥ ५२ ॥

लब्धातिशयसर्वाङ्गसौन्दर्या लब्धविभ्रमा ।
लब्धरागा लब्धपतिर्लब्धनानागमस्थितिः ॥ ५३ ॥

लब्धभोगा लब्धसुखा लब्धहर्षाभिपूरिता ।
ह्रीं‍कारमूर्तिर्ह्रीं‍कारसौधशृङ्गकपोतिका ॥ ५४ ॥

ह्रीं‍कारदुग्धाब्धिसुधा ह्रीं‍कारकमलेन्दिरा ।
ह्रीं‍कारमणिदीपार्चिर्ह्रीं‍कारतरुशारिका ॥ ५५ ॥

ह्रीं‍कारपेटकमणिर्ह्रीं‍कारादर्शबिम्बिता ।
ह्रीं‍कारकोशासिलता ह्रीं‍कारास्थाननर्तकी ॥ ५६ ॥

ह्रीं‍कारशुक्तिकामुक्तामणिर्ह्रीं‍कारबोधिता ।
ह्रीं‍कारमयसौवर्णस्तम्भविद्रुमपुत्रिका ॥ ५७ ॥

ह्रीं‍कारवेदोपनिषद् ह्रीं‍काराध्वरदक्षिणा ।
ह्रीं‍कारनन्दनारामनवकल्पकवल्लरी ॥ ५८ ॥

ह्रीं‍कारहिमवद्गङ्गा ह्रीं‍कारार्णवकौस्तुभा ।
ह्रीं‍कारमन्त्रसर्वस्वा ह्रीं‍कारपरसौख्यदा ॥ ५९ ॥

इति श्री ललिता त्रिशती स्तोत्र पूर्ण ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *