Ishavasya Upanishad or Isha Upanishad is regarded as the first among the 108 Upanishads. The word “Isa” means Lord of the Universe, so, Isha Upanishad is an Upanishad of Isa or Ishvara, the Lord of Creation. Get Ishavasya Upanishad in Hindi Pdf Lyrics here and chant it to lead a spiritual and divine centered life.
Ishavasya Upanishad in Hindi – ईशावास्योपनिषत्
ओं पूर्ण॒मद॒: पूर्ण॒मिदं॒ पूर्णा॒त्पूर्ण॒मुद॒च्यते ।
पूर्ण॒स्य पूर्ण॒मादा॒य पूर्ण॒मेवावशि॒ष्यते ॥
ओं शा॒न्तिः शा॒न्तिः शा॒न्तिः ॥
ओं ई॒शा वा॒स्य॑मि॒दग्ं सर्वं॒ यत्किं च॒ जग॑त्यां॒ जग॑त् ।
तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑ध॒: कस्य॑ स्वि॒द्धनम्᳚ ॥ १ ॥
कु॒र्वन्ने॒वेह कर्मा᳚णि जिजीवि॒षेच्छ॒तग्ं समा᳚: ।
ए॒वं त्वयि॒ नान्यथे॒तो᳚ऽस्ति न कर्म॑ लिप्यते॒ नरे᳚ ॥ २ ॥
अ॒सु॒र्या॒ नाम॒ ते लो॒का अ॒न्धेन॒ तम॒सावृ॑ताः ।
ताग्ंस्ते प्रेत्या॒भिग॑च्छन्ति॒ ये के चा᳚त्म॒हनो॒ जना᳚: ॥ ३ ॥
अने᳚ज॒देकं॒ मन॑सो॒ जवी᳚यो॒ नैन॑द्दे॒वा आ᳚प्नुव॒न्पूर्व॒मर्ष॑त् ।
तद्धाव॑तो॒ऽन्यानत्ये᳚ति॒ तिष्ठ॒त्तस्मिन्᳚नपो मा᳚त॒रिश्वा᳚ दधाति ॥ ४ ॥
तदे᳚जति॒ तन्नैज॑ति॒ तद्दू॒रे तद्वन्᳚ति॒के ।
तद॒न्तर॑स्य॒ सर्व॑स्य॒ तदु॒ सर्व॑स्यास्य बाह्य॒तः ॥ ५ ॥
यस्तु सर्वा᳚णि भू॒तान्या॒त्मन्ये॒वानु॒पश्य॑ति ।
स॒र्व॒भू॒तेषु॑ चा॒त्मानं॒ ततो॒ न वि जु॑गुप्सते ॥ ६ ॥
यस्मि॒न्सर्वा᳚णि भू॒तान्या॒त्मैवाभू᳚द्विजान॒तः ।
तत्र॒ को मोह॒: कः शोक॑ एक॒त्वम॑नु॒पश्य॑तः ॥ ७ ॥
स पर्य॑गाच्छु॒क्रम॑का॒यमव्᳚र॒णम॑स्नावि॒रग्ं शु॒द्धमपा᳚पविद्धम् ।
क॒विर्म॑नी॒षी प॑रि॒भूः स्व॑यं॒भूर्या᳚थातथ्य॒तोऽर्था॒न् व्य॑दधाच्छाश्व॒तीभ्य॒: समा᳚भ्यः ॥ ८ ॥
अ॒न्धं तम॒: प्र वि॑शन्ति॒ येऽवि॑द्यामु॒पास॑ते ।
ततो॒ भूय॑ इव॒ ते तमो॒ य उ॑ वि॒द्याया᳚ग्ं र॒ताः ॥ ९ ॥
अ॒न्यदे॒वाहुर्वि॒द्यया॒न्यदा᳚हु॒रवि॑द्यया ।
इति॑ शुश्रुम॒ धीरा᳚णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ॥ १० ॥
वि॒द्यां चावि॑द्यां च॒ यस्तद्वेदो॒भय॑ग्ं स॒ह ।
अवि॑द्यया मृ॒त्युं ती॒र्त्वा वि॒द्यया॒ऽमृत॑मश्नुते ॥ ११ ॥
अ॒न्धं तम॒: प्रवि॑शन्ति॒ येऽसं᳚भूतिमु॒पास॑ते ।
ततो॒ भूय॑ इव॒ ते तमो॒ य उ॒ संभू᳚त्याग्ं र॒ताः ॥ १२ ॥
अ॒न्यदे॒वाहुः सं᳚भ॒वाद॒न्यदा᳚हु॒रसं᳚भवात् ।
इति॑ शुश्रुम॒ धीरा᳚णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ॥ १३ ॥
संभू᳚तिं च विना॒शं च॒ यस्तद्वेदो॒भय॑ग्ं स॒ह ।
वि॒ना॒शेन॑ मृ॒त्युं ती॒र्त्वा संभू᳚त्या॒ऽमृत॑मश्नुते ॥ १४ ॥
हि॒र॒ण्मये᳚न॒ पात्रे᳚ण स॒त्यस्यापि॑हितं॒ मुखम्᳚ ।
तत्त्वं पू᳚ष॒न्नपावृ॑णु स॒त्यधर्मा᳚य दृ॒ष्टये᳚ ॥ १५ ॥
पूषन्᳚नेक ऋषे यम सूर्य॒ प्राजा᳚पत्य॒ व्यू᳚ह र॒श्मीन्त्समू᳚ह॒ तेजो॒ यत्ते᳚ रू॒पं कल्या᳚णतमं॒ तत्ते᳚ पश्यामि । यो॒ऽसाव॒सौ पु॑रुष॒: सो॒ऽहम॑स्मि ॥ १६ ॥
वा॒युरनि॑लम॒मृत॒मथे॒दं भस्मा᳚न्त॒ग्ं॒ शरी᳚रम् ।
ओं ३ क्रतो॒ स्मर॑ कृ॒तग्ं स्म॑र॒ क्रतो॒ स्मर॑ कृ॒तग्ं स्म॑र ॥ १७ ॥
अग्ने॒ नय॑ सु॒पथा᳚ रा॒ये अ॒स्मान्विश्वा᳚नि देव व॒युना᳚नि वि॒द्वान् ।
यु॒यो॒ध्य॒स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ उक्तिं विधेम ॥ १८ ॥
ओं पूर्ण॒मद॒: पूर्ण॒मिदं॒ पूर्णा॒त्पूर्ण॒मुद॒च्यते ।
पूर्ण॒स्य पूर्ण॒मादा॒य पूर्ण॒मेवावशि॒ष्यते ॥
ओं शा॒न्तिः शा॒न्तिः शा॒न्तिः ॥