छोड़कर सामग्री पर जाएँ

Adi Varahi Stotram in Hindi – श्री आदि वाराही स्तोत्रम्

Adi Varahi Stotram lyrics pdfPin

Adi Varahi Stotra is a hymn for worshipping Goddess Varahi. Get Sri Adi Varahi Stotram in Hindi Pdf Lyrics here and chant it with devotion for the grace of Maa Varahi Devi.

Adi Varahi Stotram in Hindi – श्री आदि वाराही स्तोत्रम् 

नमोऽस्तु देवी वाराही जयैङ्कारस्वरूपिणि ।
जपित्वा भूमिरूपेण नमो भगवती प्रिये ॥ १ ॥

जय क्रोडास्तु वाराही देवी त्वं च नमाम्यहम् ।
जय वाराहि विश्वेशी मुख्यवाराहि ते नमः ॥ २ ॥

मुख्यवाराहि वन्दे त्वां अन्धे अन्धिनि ते नमः ।
सर्वदुष्टप्रदुष्टानां वाक्‍स्तम्भनकरी नमः ॥ ३ ॥

नमः स्तम्भिनि स्तम्भे त्वां जृम्भे जृम्भिणि ते नमः ।
रुन्धे रुन्धिनि वन्दे त्वां नमो देवी तु मोहिनी ॥ ४ ॥

स्वभक्तानां हि सर्वेषां सर्वकामप्रदे नमः ।
बाह्वोः स्तम्भकरी वन्दे त्वां जिह्वास्तम्भकारिणी ॥ ५ ॥

स्तम्भनं कुरु शत्रूणां कुरु मे शत्रुनाशनम् ।
शीघ्रं वश्यं च कुरुते योऽग्नौ वाचात्मिके नमः ॥ ६ ॥

ठचतुष्टयरूपे त्वां शरणं सर्वदा भजे ।
होमात्मके फड्रूपेण जय आद्यानने शिवे ॥ ७ ॥

देहि मे सकलान् कामान् वाराही जगदीश्वरी ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ ८ ॥

इदमाद्यानना स्तोत्रं सर्वपापविनाशनम् ।
पठेद्यः सर्वदा भक्त्या पातकैर्मुच्यते तथा ॥ ९ ॥

लभन्ते शत्रवो नाशं दुःखरोगापमृत्यवः ।
महदायुष्यमाप्नोति अलक्ष्मीर्नाशमाप्नुयात् ॥ १० ॥

इति श्री आदिवाराही स्तोत्रम् ।
 

अन्य श्री वाराही स्तोत्र देखें।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *