छोड़कर सामग्री पर जाएँ

Dattatreya Kavacham in Hindi – श्री दत्तात्रेय कवचम्

Dattatreya Kavacham - BhaktinidhiPin

Get Sri Dattatreya Kavacham in Hindi lyrics here and chant it with devotion for the grace of Lord Dattatreya.

Dattatreya Kavacham in Hindi – श्री दत्तात्रेय कवचम् 

श्रीपादः पातु मे पादौ ऊरू सिद्धासनस्थितः ।
पायाद्दिगम्बरो गुह्यं नृहरिः पातु मे कटिम् ॥ 1 ॥

नाभिं पातु जगत्स्रष्टा उदरं पातु दलोदरः ।
कृपालुः पातु हृदयं षड्भुजः पातु मे भुजौ ॥ 2 ॥

स्रक्कुण्डी शूलडमरुशङ्खचक्रधरः करान् ।
पातु कण्ठं कम्बुकण्ठः सुमुखः पातु मे मुखम् ॥ 3 ॥

जिह्वां मे वेदवाक्पातु नेत्रं मे पातु दिव्यदृक् ।
नासिकां पातु गन्धात्मा पातु पुण्यश्रवाः श्रुती ॥ 4 ॥

ललाटं पातु हंसात्मा शिरः पातु जटाधरः ।
कर्मेन्द्रियाणि पात्वीशः पातु ज्ञानेन्द्रियाण्यजः ॥ 5 ॥

सर्वान्तरोन्तःकरणं प्राणान्मे पातु योगिराट् ।
उपरिष्टादधस्ताच्च पृष्ठतः पार्श्वतोऽग्रतः ॥ 6 ॥

अन्तर्बहिश्च मां नित्यं नानारूपधरोऽवतु ।
वर्जितं कवचेनान्यात् स्थानं मे दिव्यदर्शनः ॥ 7 ॥

राजतः शत्रुतो हिंसात् दुष्प्रयोगादितो मतः ।
आधिव्याधिभयार्तिभ्यो दत्तात्रेयस्सदाऽवतु ॥ 8 ॥

धनधान्यगृहक्षेत्रस्त्रीपुत्रपशुकिङ्करान् ।
ज्ञातीम्श्च पातु मे नित्यमनसूयानन्दवर्धनः ॥ 9 ॥

बालोन्मत्त पिशाचाभो द्युनिट् सन्धिषु पातु माम् ।
भूतभौतिकमृत्युभ्यो हरिः पातु दिगम्बरः ॥ 10 ॥

य एतद्दत्त कवचं सन्नह्यात् भक्तिभावितः ।
सर्वानर्थविनिर्मुक्तो ग्रहपीडाविवर्जितः ॥ 11 ॥

भूतप्रेतपिशाचाद्यैः देवैरप्यपराजितः ।
भुक्त्वात्र दिव्यान्भोगान्सः देहाऽन्ते तत्पदं व्रजेत् ॥ 12 ॥

इति श्री वासुदेवानन्द स्वामि सरस्वती विरचित श्री दत्तात्रेय कवचम् ।

“Dattatreya Kavacham in Hindi – श्री दत्तात्रेय कवचम्” पर 2 विचार

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *