छोड़कर सामग्री पर जाएँ

Durga Ashtakam in Hindi – श्री दुर्गाष्टकम्

Durga Ashtakam or DurgashtakamPin

Durgashtakam is an eight verse stotra praising Goddess Durga. Get Sri Durga Ashtakam in Hindi Lyrics Pdf here and chant it with devotion for the grace of Durga Maa.

Durga Ashtakam in Hindi – श्री दुर्गाष्टकम् 

कात्यायनि महामाये खड्गबाणधनुर्धरे ।
खड्गधारिणि चण्डि दुर्गादेवि नमोऽस्तु ते ॥ १ ॥

वसुदेवसुते कालि वासुदेवसहोदरी ।
वसुन्धराश्रिये नन्दे दुर्गादेवि नमोऽस्तु ते ॥ २ ॥

योगनिद्रे महानिद्रे योगमाये महेश्वरी ।
योगसिद्धिकरी शुद्धे दुर्गादेवि नमोऽस्तु ते ॥ ३ ॥

शङ्खचक्रगदापाणे शार्ङ्गज्यायतबाहवे ।
पीताम्बरधरे धन्ये दुर्गादेवि नमोऽस्तु ते ॥ ४ ॥

ऋग्यजुस्सामाथर्वाणश्चतुस्सामन्तलोकिनी ।
ब्रह्मस्वरूपिणि ब्राह्मि दुर्गादेवि नमोऽस्तु ते ॥ ५ ॥

वृष्णीनां कुलसम्भूते विष्णुनाथसहोदरी ।
वृष्णिरूपधरे धन्ये दुर्गादेवि नमोऽस्तु ते ॥ ६ ॥

सर्वज्ञे सर्वगे शर्वे सर्वेशे सर्वसाक्षिणी ।
सर्वामृतजटाभारे दुर्गादेवि नमोऽस्तु ते ॥ ७ ॥

अष्टबाहु महासत्त्वे अष्टमी नवमी प्रिये ।
अट्‍टहासप्रिये भद्रे दुर्गादेवि नमोऽस्तु ते ॥ ८ ॥

 

दुर्गाष्टकमिदं पुण्यं भक्तितो यः पठेन्नरः ।
सर्वकाममवाप्नोति दुर्गालोकं स गच्छति ॥

इति श्री दुर्गाष्टकम् ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *