छोड़कर सामग्री पर जाएँ

Dharmasastha Bhujang Stotra in Hindi – श्री धर्मशास्त भुजंग स्तोत्र

Dharmasastha Bhujanga Stotram Lyrics or Dharma sastha Bhjang StotraPin

Dharmasastha Bhujang Stotra is a devotional hymn for worshipping Lord Ayyappa. Get Sri Dharmasasth Bhujang Stotra in Hindi Pdf lyrics here and chant it for the grace of Lord Ayyappa.

Dharmasastha Bhujang Stotra in Hindi – श्री धर्मशास्ता भुजंग स्तोत्र 

श्रितानन्दचिन्तामणि श्रीनिवासं
सदा सच्चिदानन्द पूर्णप्रकाशम् ।
उदारं सुदारं सुराधारमीशं
परं ज्योतिरूपं भजे भूतनाथम् ॥ १ ॥

विभुं वेदवेदान्तवेद्यं वरिष्ठं
विभूतिप्रदं विश्रुतं ब्रह्मनिष्ठम् ।
विभास्वत्प्रभावप्रभं पुष्कलेष्टं
परं ज्योतिरूपं भजे भूतनाथम् ॥ २ ॥

परित्राणदक्षं परब्रह्मसूत्रं
स्फुरच्चारुगात्रं भवध्वान्तमित्रम् ।
परं प्रेमपात्रं पवित्रं विचित्रं
परं ज्योतिरूपं भजे भूतनाथम् ॥ ३ ॥

परेशं प्रभुं पूर्णकारुण्यरूपं
गिरीशादिपीठोज्ज्वलच्चारुदीपम् ।
सुरेशादिसंसेवितं सुप्रतापं
परं ज्योतिरूपं भजे भूतनाथम् ॥ ४ ॥

हरीशानसम्युक्तशक्त्यैकवीरं
किरातावतारं कृपापाङ्गपूरम् ।
किरीटावतंसोज्ज्वलत् पिञ्छभारं
परं ज्योतिरूपं भजे भूतनाथम् ॥ ५ ॥

गुरुं पूर्णलावण्यपादादिकेशं
गरीयं महाकोटिसूर्यप्रकाशम् ।
कराम्भोरुहन्यस्तवेत्रं सुरेशं
परं ज्योतिरूपं भजे भूतनाथम् ॥ ६ ॥

महायोगपीठे ज्वलन्तं महान्तं
महावाक्यसारोपदेशं सुशान्तम् ।
महर्षिप्रहर्षप्रदं ज्ञानकन्दं
परं ज्योतिरूपं भजे भूतनाथम् ॥ ७ ॥

महारण्यमन्मानसान्तर्निवासान्
अहङ्कारदुर्वारहिं‍स्रा मृगादीन् ।
निहन्तं किरातावतारं चरन्तं
परं ज्योतिरूपं भजे भूतनाथम् ॥ ८ ॥

पृथिव्यादिभूतप्रपञ्चान्तरस्थं
पृथग्भूतचैतन्यजन्यं प्रशस्तम् ।
प्रधानं प्रमाणं पुराणप्रसिद्धं
परं ज्योतिरूपं भजे भूतनाथम् ॥ ९ ॥

जगज्जीवनं पावनं पावनीयं
जगद्व्यापकं दीपकं मोहनीयम् ।
सुखाधारमाधारभूतं तुरीयं
परं ज्योतिरूपं भजे भूतनाथम् ॥ १० ॥

इहामुत्र सत्सौख्यसम्पन्निधानं
महद्योनिमव्याहतात्माभिधानम् ।
अहः पुण्डरीकाननं दीप्यमानं
परं ज्योतिरूपं भजे भूतनाथम् ॥ ११ ॥

त्रिकालस्थितं सुस्थिरं ज्ञानसंस्थं
त्रिधाम त्रिमूर्त्यात्मकं ब्रह्मसंस्थम् ।
त्रयीमूर्तिमार्तिच्छिदं शक्तियुक्तं
परं ज्योतिरूपं भजे भूतनाथम् ॥ १२ ॥

इडां पिङ्गलां सत्सुषुम्णां विशन्तं
स्फुटं ब्रह्मरन्ध्र स्वतन्त्रं सुशान्तम् ।
दृढं नित्य निर्वाणमुद्भासयन्तं
परं ज्योतिरूपं भजे भूतनाथम् ॥ १३ ॥

अणुब्रह्मपर्यन्त जीवैक्यबिम्बं
गुणाकारमत्यन्तभक्तानुकम्पम् ।
अनर्घं शुभोदर्कमात्मावलम्बं
परं ज्योतिरूपं भजे भूतनाथम् ॥ १४ ॥

इति श्री धर्मशास्त भुजङ्ग स्तोत्रम् ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *