छोड़कर सामग्री पर जाएँ

Subramanya stotram in Hindi – श्री सुब्रह्मण्य स्तोत्रम्

Sri Subramanya stotramPin

Subramanya Stotram is a hymn in praise of Kumaraswamy or Murugan. Get Sri Subramanya Stotram in Hindi lyrics here and chant with devotion for the grace of Lord Subrahmanyeswara Swamy.

Subramanya Stotram in Hindi – श्री सुब्रह्मण्य स्तोत्रम् 

आदित्यविष्णुविघ्नेशरुद्रब्रह्ममरुद्गणाः ।
लोकपालाः सर्वदेवाः चराचरमिदं जगत् ॥ 1 ॥

सर्वं त्वमेव ब्रह्मैव अजमक्षरमद्वयम् ।
अप्रमेयं महाशान्तं अचलं निर्विकारकम् ॥ 2 ॥

निरालम्बं निराभासं सत्तामात्रमगोचरम् ।
एवं त्वां मेधया बुद्ध्या सदा पश्यन्ति सूरयः ॥ 3 ॥

एवमज्ञानगाढान्धतमोपहतचेतसः ।
न पश्यन्ति तथा मूढाः सदा दुर्गति हेतवे ॥ 4 ॥

विष्ण्वादीनि स्वरूपाणि लीलालोकविडम्बनम् ।
कर्तुमुद्यम्य रूपाणि विविधानि भवन्ति च ॥ 5 ॥

तत्तदुक्ताः कथाः सम्यक् नित्यसद्गतिप्राप्तये ।
भक्त्या श्रुत्वा पठित्वा च दृष्ट्या सम्पूज्य श्रद्धया ॥ 6 ॥

सर्वान्कामानवाप्नोति भवदाराधनात्खलु ।
मम पूजामनुग्राह्य सुप्रसीद भवानघ ॥ 7 ॥

चपलं मन्मथवशममर्यादमसूयकम् ।
वञ्चकं दुःखजनकं पापिष्ठं पाहि मां प्रभो ॥ 8 ॥

सुब्रह्मण्यस्तोत्रमिदं ये पठन्ति द्विजोत्तमाः ।
ते सर्वे मुक्तिमायान्ति सुब्रह्मण्य प्रसादतः ॥ 9 ॥

इति श्री सुब्रह्मण्य स्तोत्रम् पूर्ण ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *