छोड़कर सामग्री पर जाएँ

Sashti Devi Stotram in Hindi – षष्ठी देवि स्तोत्रम्

Sashti Devi StotramPin

Shashti Devi is the consort of lord Subramanya. She is also called Devayani or Devasena. She is the goddess of vegetation, reproduction, children, and protection of womb. It is believed that she blesses childless couples with children. Get Sri Sashti Devi Stotram in hindi Pdf Lyrics here and chant it with utmost devotion to get the grace of Shashti Devi and get blessed with children.

Sashti Devi Stotram in Hindi – षष्ठी देवि स्तोत्रम् 

ध्यानम् ।

श्रीमन्मातरमम्बिकां विधिमनोजातां सदाभीष्टदां
स्कन्देष्टां च जगत्प्रसूं विजयदां सत्पुत्र सौभाग्यदां ।
सद्रत्नाभरणान्वितां सकरुणां शुभ्रां शुभां सुप्रभां
षष्ठांशां प्रकृतेः परं भगवतीं श्री देवसेनां भजे ॥

षष्ठांशां प्रकृतेः शुद्धां सुप्रतिष्टां च सुव्रतां
सुपुत्रदां च शुभदां दयारूपां जगत्प्रसूं ।
श्वेतचम्पकवर्णाभां रक्तभूषणभूषितां
पवित्ररूपां परमं देवसेना परां भजे ॥

स्तोत्रम् ।

नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः ।
शुभायै देवसेनायै षष्ठी देव्यै नमो नमः ॥ १ ॥

वरदायै पुत्रदायै धनदायै नमो नमः ।
सुखदायै मोक्षदायै षष्ठी देव्यै नमो नमः ॥ २ ॥

सृष्ट्यै षष्ठांशरूपायै सिद्धायै च नमो नमः ।
मायायै सिद्धयोगिन्यै षष्ठी देव्यै नमो नमः ॥ ३ ॥

सारायै शारदायै च परादेव्यै नमो नमः ।
बालादिष्टातृ देव्यै च षष्ठी देव्यै नमो नमः ॥ ४ ॥

कल्याणदायै कल्याण्यै फलदायै च कर्मणां ।
प्रत्यक्षायै सर्वभक्तानां षष्ठी देव्यै नमो नमः ॥ ५ ॥

पूज्यायै स्कन्दकान्तायै सर्वेषां सर्वकर्मसु ।
देवरक्षणकारिण्यै षष्ठी देव्यै नमो नमः ॥ ६ ॥

शुद्धसत्त्वस्वरूपायै वन्दितायै नृणां सदा ।
हिंसाक्रोधवर्जितायै षष्ठी देव्यै नमो नमः ॥ ७ ॥

धनं देहि प्रियां देहि पुत्रं देहि सुरेश्वरि ।
मानं देहि जयं देहि द्विषो जहि महेश्वरि ।
धर्मं देहि यशो देहि षष्ठी देवी नमो नमः ॥ ८ ॥

देहि भूमिं प्रजां देहि विद्यां देहि सुपूजिते ।
कल्याणं च जयं देहि षष्ठी देव्यै नमो नमः ॥ ९ ॥

फलशृति ।

इति देवीं च संस्तुत्य लभेत्पुत्रं प्रियव्रतं ।
यशश्विनं च राजेन्द्रं षष्ठी देवि प्रसादत ॥

षष्ठी स्तोत्रमिदं ब्रह्मान् यः शृणोति तु वत्सरं ।
अपुत्रो लभते पुत्रं वरं सुचिर जीवनम् ॥

वर्षमेकं च या भक्त्या संस्तुत्येदं शृणोति च ।
सर्वपापात्विनिर्मुक्ता महावन्ध्या प्रसूयते ॥

वीरं पुत्रं च गुणिनं विद्यावन्तं यशस्विनं ।
सुचिरायुष्यवन्तं च सूते देवि प्रसादतः ॥

काक वन्ध्या च या नारी मृतपत्या च या भवेत् ।
वर्षं शृत्वा लभेत्पुत्रं षष्ठी देवी प्रसादतः ॥

रोग युक्ते च बाले च पितामाता शृणोति चेत् ।
मासेन मुच्यते रोगान् षष्ठी देवी प्रसादतः ॥

जय देवि जगन्मातः जगदानन्दकारिणि ।
प्रसीद मम कल्याणि नमस्ते षष्ठी देवते ॥

श्री षष्ठी देवि स्तोत्रम् सम्पूर्णम् ॥

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *