छोड़कर सामग्री पर जाएँ

Matangi Stotram in Hindi – श्री मातङ्गी स्तोत्र

Matangi StotramPin

Matangi Stotram is a hymn in praise of Goddess Matangi Devi, who is one of the Dasamahavidyas and the tantric form of Goddess Saraswathi. Get Sri Matangi Stotram in Hindi Pdf Lyrics here and chant it with devotion for the grace of Goddess  Raja Matangi Devi.

Matangi Stotram in Hindi – श्री मातङ्गी स्तोत्र 

ईश्वर उवाच ।

आराध्य मातश्चरणाम्बुजे ते
ब्रह्मादयो विस्तृत कीर्तिमायुः ।
अन्ये परं वा विभवं मुनीन्द्राः
परां श्रियं भक्ति परेण चान्ये ॥ १

नमामि देवीं नवचन्द्रमौले-
र्मातङ्गिनी चन्द्रकलावतंसां ।
आम्नायप्राप्ति प्रतिपादितार्थं
प्रबोधयन्तीं प्रियमादरेण ॥ २ ॥

विनम्रदेवस्थिरमौलिरत्नैः
विराजितं ते चरणारविन्दं ।
अकृत्रिमाणं वचसां विशुक्लां
पदां पदं शिक्षितनूपुराभ्याम् ॥ ३ ॥

कृतार्थयन्तीं पदवीं पदाभ्यां
आस्फालयन्तीं कलवल्लकीं तां ।
मातङ्गिनीं सद्धृदयां धिनोमि
लीलाम्शुकां शुद्ध नितम्बबिम्बाम् ॥ ४ ॥

तालीदलेनार्पितकर्णभूषां
माध्वीमदोद्घूर्णितनेत्रपद्मां
घनस्तनीं शंभुवधूं नमामि
तटिल्लताकान्तिमनर्घ्यभूषाम् ॥ ५ ॥

चिरेण लक्ष्म्या नवरोमराज्या
स्मरामि भक्त्या जगतामधीशे ।
वलित्रयाढ्यं तम मध्यमम्ब
नीलोत्पलां शुश्रियमावहन्तम् ॥ ६ ॥

कान्त्या कटाक्षैः कमलाकराणां
कदम्बमालाञ्चितकेशपाशं ।
मातङ्गकन्ये हृदि भावयामि
ध्यायेहमारक्तकपोलबिम्बम् ॥ ७ ॥

बिम्बाधरं न्यस्तललामरम्य-
मालोललीलालकमायताक्षं ।
मन्दस्मितं ते वदनं महेशि
स्तुवेन्वहं शङ्कर धर्मपत्नि ॥ ८ ॥

मातङ्गिनीं वागधिदेवतां तां
स्तुवन्ति ये भक्तियुता मनुष्याः ।
परां श्रियं नित्यमुपाश्रयन्ति
परत्र कैलासतले वसन्ति ॥ ९ ॥

इति श्री मातङ्गी स्तोत्र ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *