Manisha Panchakam in Hindi is a 5 stanza stotram by Sri Adi Shankaracharya. Once, in Kasi, when Adi Shankara was going to the Vishwanath Temple after his bath in Ganga, his path was blocked by a “Chandala (untouchable)”, who was accompanied by his wife and 4 dogs. The disciples of Sri Sankara shouted at him to make way, and to keep a distance, as was customary in those days. The untouchable smiled and said, “According to your principle of Advaita, which you practice, all the Jivatma are the same as God. How do you ask me to go? How am I different from your Paramacharya? What you say is unreasonable. How can I go away from myself?”. Adi Shankaracharya realized that the chandala is none other than Lord Viswanatha along with his consort Visalakshi Devi and the four Vedas. He prostrated before him and sang five slokas, which are called Manisha Panchakam. Get Manisha Panchakam in Hindi Pdf Lyrics here and chant it with devotion for the grace of Lord Shiva.
Manisha Panchakam in Hindi – मनीषा पंचकम्
अनुष्टुप् छन्दः –
सत्याचार्यस्य गमने कदाचिन्मुक्ति दायकम् ।
काशीक्शेत्रं प्रति सह गौर्या मार्गे तु श्ङ्करम् ॥
अन्त्यवेषधरं दृष्ट्वा गच्छ गच्छेति चाब्रवीत् ।
शङ्करःसोऽपि चाण्डलस्तं पुनः प्राह श्ङ्करम् ॥
आर्या वृत्त –
अन्नमयादन्नमयमथवा चैतन्यमेव चैतन्यात् ।
यतिवर दूरीकर्तुं वाञ्छसि किं ब्रूहि गच्छ गच्छेति ।
शार्दूल विक्रीडित छन्द –
प्रत्यग्वस्तुनि निस्तरङ्गसहजानन्दावबोधाम्बुधौ
विप्रोऽयं श्वपचोऽयमित्यपि महान्कोऽयं विभेदभ्रमः ।
किं गङ्गाम्बुनि बिम्बितेऽम्बरमणौ चाण्डालवीथीपयः
पूरे वाऽन्तरमस्ति काञ्चनघटीमृत्कुम्भयोर्वाऽम्बरे ॥
मनीषा पंचकम्
जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृम्भते
या ब्रह्मादिपिपीलिकान्ततनुषु प्रोता जगत्साक्षिणी ।
सैवाहं न च दृश्यवस्त्विति दृढप्रज्ञापि यस्यास्ति चे-
च्चाण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥ १ ॥
ब्रह्मैवाहमिदं जगच्च सकलं चिन्मात्रविस्तारितं
सर्वं चैतदविद्यया त्रिगुणयाऽशेषं मया कल्पितम् ।
इत्थं यस्य दृढा मतिः सुखतरे नित्ये परे निर्मले
चाण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥ २ ॥
शश्वन्नश्वरमेव विश्वमखिलं निश्चित्य वाचा गुरो-
र्नित्यं ब्रह्म निरन्तरं विमृशता निर्व्याजशान्तात्मना ।
भूतं भावि च दुष्कृतं प्रदहता संविन्मये पावके
प्रारब्धाय समर्पितं स्ववपुरित्येषा मनीषा मम ॥ ३ ॥
या तिर्यङ्नरदेवताभिरहमित्यन्तः स्फुटा गृह्यते
यद्भासा हृदयाक्षदेहविषया भान्ति स्वतोऽचेतनाः ।
तां भास्यैः पिहितार्कमण्डलनिभां स्फूर्तिं सदा भावय-
न्योगी निर्वृतमानसो हि गुरुरित्येषा मनीषा मम ॥ ४ ॥
यत्सौख्याम्बुधिलेशलेशत इमे शक्रादयो निर्वृता
यच्चित्ते नितरां प्रशान्तकलने लब्ध्वा मुनिर्निर्वृतः ।
यस्मिन्नित्यसुखाम्बुधौ गलितधीर्ब्रह्मैव न ब्रह्मविद्
यः कश्चित्स सुरेन्द्रवन्दितपदो नूनं मनीषा मम ॥ ५ ॥
दासस्तेऽहं देहदृष्ट्याऽस्मि शंभो
जातस्तेंऽशो जीवदृष्ट्या त्रिदृष्टे ।
सर्वस्याऽऽत्मन्नात्मदृष्ट्या त्वमेवे-
त्येवं मे धीर्निश्चिता सर्वशास्त्रैः ॥
॥ इति श्रीमच्छङ्करभगवतः कृतौ मनीषा पंचकं सम्पूर्णम् ॥