छोड़कर सामग्री पर जाएँ

Ashwattha Stotra in Hindi – अश्वत्थ स्तोत्र

Ashwattha Stotram

Ashwattha Stotram is a devotional hymn for worshipping the Ashwattha Tree (Peepal Tree). In the Bhagavat Gita Shri Krishna Ji describes the universe as an inverted Ashwattha tree. This Stotram draws from this symbolism and praises the tree as a manifestation of Lord Vishnu and, by extension, the entire Trimurti’s. Get Ashwattha Stotra in Hindi Lyrics Pdf here and chant it while worshipping Ashwattha or Peepal Tree.

Ashwattha Stotra in Hindi – अश्वत्थ स्तोत्र

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।
अग्रतः शिवरूपाय वृक्षराजाय ते नमः ॥ १ ॥

ज्वरपीडासमुद्भूत देहपीडानिवृत्तये ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ २ ॥

अपस्मारगदोपेत देह पीडानिवृत्तये ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ ३ ॥

क्षयव्याधिसमाक्रान्त देहचिन्तानिपीडितः ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ ४ ॥

कुष्णुपीडानरिक्षीण शरीरव्याधिबाधितः ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ ५ ॥

जलोदरगदाक्रान्त नितान्तक्लिन्नमानसः ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ ६ ॥

पाण्डुरोगसमाक्रान्त शुष्कीभूतशरीरिणः ।
आरोग्यं मे प्रयच्छाशु वृक्षराजाय ते नमः ॥ ७ ॥

मारीमशूचीप्रभृति सर्वरोगनिवृत्तये ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ ८ ॥

रणव्याधिमहापीडा नितान्तक्लिन्नमानसः ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ ९ ॥

वातोष्णवैत्यप्रभृति व्याधिबाधानिपीडितः ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ १० ॥

सन्तानहीनचिन्तया नितान्तक्लिन्नमानसः ।
सन्तानप्राप्तये तुभ्यं वृक्षराजाय ते नमः ॥ ११ ॥

सर्वसम्पत्प्रदानाय समर्थोसितरूत्तम ।
अतस्त्वद्भक्तियुक्तोहं वृक्षराजाय ते नमः ॥ १२ ॥

सर्वयज्ञक्रियारम्भसाधनोसि महातरो ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ १३ ॥

ब्रह्मविष्णुस्वरूपोऽसि सर्वदेवमयोह्यसि ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ १४ ॥

ऋग्यजुः सामरूपोऽसि सर्वशास्त्रमयोह्यसि ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ १५ ॥

पिशाचादिमहाभूत सदापीडितमानसः ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ १६ ॥

ब्रह्मराक्षसपीडादि दूरीकरणशक्तिमान् ।
अश्वत्थ इति विख्यात अतस्तां प्रार्थयाम्यहम् ॥ १७ ॥

सर्वतीर्थमयो वृक्ष अश्वत्थ इति च स्मृतः ।
तस्मात् त्वद्भक्तियुक्तोऽहं वृक्षराजाय ते नमः ॥ १८ ॥

परप्रयोगजातायाः पीडायाक्लिन्नमानसः ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ १९ ॥

सर्वामयनिवृत्त्यैत्त्वं समर्थोसि तरूत्तम ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ २० ॥

दुःस्वप्न दुर्निमित्ताफ़्दि दोषसङ्घ निवृत्तये ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ २१ ॥

भवार्णवनिमग्नस्य समुद्धरण शक्तिमान् ।
अश्वत्थ इति वक्तव्य वृक्षराजाय ते नमः ॥ २२ ॥

पापानलप्रदग्धस्य शात्यैनिपुलवारिदः ।
अश्वत्थ एव सा धीयान् वृक्षराजाय तेनमः ॥ २३ ॥

गवाकोटिप्रदानेन यत्फलं लभते जनः ।
त्वत्सेवया तदाप्नोति वृक्षराजाय ते नमः ॥ २४ ॥

सर्वव्रतविधानाच्च सर्वदेवाभिपूजनात् ।
यत् प्राप्तं तदवाप्नोति वृक्षराजाय ते नमः ॥ २५ ॥

सुमङ्गलीत्वं सौभाग्य सौशील्यादि गुणाप्तये ।
तत्सेवैव समर्थो हि वृक्षराजाय ते नमः ॥ २६ ॥

हृदये मे यद्यदिष्टं तत्सर्वं सफलं कुरु ।
त्वामेव शरणं प्राप्तो वृक्षराजाय ते नमः ॥ २७ ॥

एतानेव चतुर्वारं पठित्वा च प्रदक्षिणम् ।
कुर्याच्चेद्भक्तिसहितो ह्यष्टोत्तरशतं भवेत् ॥ २८ ॥

इति अश्वत्थ स्तोत्रम् ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *