Vayunandana Ashtakam or Vayunandanastakam is an eight-verse devotional composition dedicated to Lord Hanuman, who is revered as the Son of Lord Vayu, hence called as “Vayunandana. Get Sri Vayunandana Ashtakam in Hindi Pdf Lyrics here and chant it for the grace of Lord Hanunman.
Vayunandana Ashtakam in Hindi – श्री वायुनन्दनाष्टकम्
एकवीरं महारौद्रं तप्तकाञ्चनकुण्डलम् ।
लम्बवालं स्थूलकायं वन्देऽहं वायुनन्दनम् ॥ १ ॥
महावीर्यं महाशौर्यं महदुग्रं महेश्वरम् ।
महासुरेशनिर्घातं वन्देऽहं वायुनन्दनम् ॥ २ ॥
जानकीशोकहरणं वानरं कुलदीपकम् ।
सुब्रह्मचारिणं श्रेष्ठं वन्देऽहं वायुनन्दनम् ॥ ३ ॥
दशग्रीवस्य दर्पघ्नं श्रीरामपरिसेवकम् ।
दशदुर्दशहन्तारं वन्देऽहं वायुनन्दनम् ॥ ४ ॥
लङ्कानिःशङ्कदहनं सीतासन्तोषकारिणम् ।
समुद्रलङ्घनं चैव वन्देऽहं वायुनन्दनम् ॥ ५ ॥
ब्रह्मकोटिसमं दिव्यं रुद्रकोटिसमप्रभम् ।
वरातीतं महामन्त्रं वन्देऽहं वायुनन्दनम् ॥ ६ ॥
शतकोटिसुचन्द्रार्कमण्डलाकृतिलक्षणम् ।
आञ्जनेयं महातेजं वन्देऽहं वायुनन्दनम् ॥ ७ ॥
शीघ्रकामं चिरञ्जीवि सर्वकामफलप्रदम् ।
हनुमत् स्तुतिमन्त्रेण वन्देऽहं वायुनन्दनम् ॥ ८ ॥
इति श्री वायुनन्दनाष्टकम् ॥