Rudra Stavanam in Hindi – श्री रुद्र स्तवनम्
नमो विरिञ्चविष्ण्वीशभेदेन परमात्मने ।
सर्गसंस्थितिसंहारव्यावृत्तिव्यक्तवृत्तये ॥ १ ॥
नमश्चतुर्धा प्रोद्भूतभूतभूतात्मने भुवः ।
भूरिभारार्तिसंहर्त्रे भूतनाथाय शूलिने ॥ २ ॥
विश्वग्रासाय विलसत्कालकूटविषाशिने ।
तत्कलङ्काङ्कितग्रीवनीलकण्ठाय ते नमः ॥ ३ ॥
नमो ललाटनयनप्रोल्लसत्कृष्णवर्त्मने ।
ध्वस्तस्मरनिरस्ताधियोगिध्याताय शम्भवे ॥ ४ ॥
नमो देहार्धकान्ताय दग्धदक्षाध्वराय च ।
चतुर्वर्गेष्वभीष्टार्थदायिने मायिनेऽणवे ॥ ५ ॥
स्थूलाय मूलभूताय शूलदारितविद्विषे ।
कालहन्त्रे नमश्चन्द्रखण्डमण्डितमौलये ॥ ६ ॥
विवाससे कपर्दान्तर्भ्रान्ताहिसरिदिन्दवे ।
देवदैत्यासुरेन्द्राणां मौलिघृष्टाङ्घ्रये नमः ॥ ७ ॥
भस्माभ्यक्ताय भक्तानां भुक्तिमुक्तिप्रदायिने ।
व्यक्ताव्यक्तस्वरूपाय शङ्कराय नमो नमः ॥ ८ ॥
नमोऽन्धकान्तकरिपवे पुरद्विषे
नमोऽस्तु ते द्विरदवराहभेदिने ।
विषोल्लसत्फणिकुलबद्धमूर्तये
नमः सदा वृषवरवाहनाय ते ॥ ९ ॥
वियन्मरुद्धुतवहवार्वसुन्धरा
मखेशरव्यमृतमयूखमूर्तये ।
नमः सदा नरकभयावभेदिने
भवेह नो भवभयभङ्गकृद्विभो ॥ १० ॥
इति श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे पञ्चविंशः पटले श्री रुद्र स्तवनम् ।