छोड़कर सामग्री पर जाएँ

Nandkumar Ashtakam in Hindi – नन्द कुमार अष्टकम्

Nanda Kumara Ashtakam or NandakumarastakamPin

NandKumar Ashtakam is an 8 verse devotional hymn in praise of Lord Krishna, particularly in his form as the beloved son of Nandagopa, his foster-father. “Nanda Kumara” literally means “Son of Nanda”. Nand kumar astakam was composed by Sri Vallabhacharya, who is a revered saint and the founder of Pushtimarg Sampradaya. Get Sri NandKumar Ashtakam in Hindi Lyrics Pdf here and chant it for the grace of Lord Krishna.

Nandkumar Ashtakam in Hindi – नन्द कुमार अष्टकम् 

सुन्दरगोपालं उरवनमालं नयनविशालं दुःखहरं
बृन्दावनचन्द्रमानन्दकन्दं परमानन्दं धरणिधरम् ।
वल्लभघनश्यामं पूर्णकामं अत्यभिरामं प्रीतिकरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 1 ॥

सुन्दरवारिजवदनं निर्जितमदनं आनन्दसदनं मुकुटधरं
गुञ्जाकृतिहारं विपिनविहारं परमोदारं चीरहरम् ।
वल्लभपटपीतं कृत उपवीतं करनवनीतं विबुधवरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 2 ॥

शोभितसुखमूलं यमुनाकूलं निपट अतूलं सुखदतरं
मुखमण्डितरेणुं चारितधेनुं वादितवेणुं मधुरसुरम् ।
वल्लभमतिविमलं शुभपदकमलं नखरुचि अमलं तिमिरहरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 3 ॥

शिरमुकुटसुदेशं कुञ्चितकेशं नटवरवेषं कामवरं
मायाकृतमनुजं हलधर अनुजं प्रतिहतदनुजं भारहरम् ।
वल्लभव्रजपालं सुभगसुचालं हितमनुकालं भाववरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 4 ॥

इन्दीवरभासं प्रकटसरासं कुसुमविकासं वंशधरं
हृत्मन्मथमानं रूपनिधानं कृतकलगानं चित्तहरम् ।
वल्लभमृदुहासं कुञ्जनिवासं विविधविलासं केलिकरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 5 ॥

अतिपरमप्रवीणं पालितदीनं भक्ताधीनं कर्मकरं
मोहनमतिधीरं फणिबलवीरं हतपरवीरं तरलतरम् ।
वल्लभव्रजरमणं वारिजवदनं हलधरशमनं शैलधरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 6 ॥

जलधरद्युतिअङ्गं ललितत्रिभङ्गं बहुकृतिरङ्गं रसिकवरं
गोकुलपरिवारं मदनाकारं कुञ्जविहारं गूढतरम् ।
वल्लभव्रजचन्द्रं सुभगसुछन्दं कृत आनन्दं भ्रान्तिहरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 7 ॥

वन्दितयुगचरणं पावनकरणं जगदुद्धरणं विमलधरं
कालियशिरगमनं कृतफणिनमनं घातितयमनं मृदुलतरम् ।
वल्लभदुःखहरणं निर्मलचरणं अशरणशरणं मुक्तिकरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 8 ॥

इति श्रीमद्वल्लभाचार्यविरचितं श्री नन्दकुमाराष्टकम् ॥

 

 

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *