Dakshinamurthy Sahasranamavali is the 1000 names of Lord Dakshinamurthy, who is an aspect Lord Shiva as a Guru (teacher). Get Sri Dakshinamurthy Sahasranamavali in Hindi Pdf Lyrics here and chant the 1000 names of Dakshinamurthy.
Dakshinamurthy Sahasranamavali in Hindi – श्री दक्षिणामूर्ति सहस्रनामावली
ओं देवदेवाय नमः ।
ओं महादेवाय नमः ।
ओं देवानामपि देशिकाय नमः ।
ओं दक्षिणामूर्तये नमः ।
ओं ईशानाय नमः ।
ओं दयापूरितदिङ्मुखाय नमः ।
ओं कैलासशिखरोत्तुङ्गकमनीयनिजाकृतये नमः ।
ओं वटद्रुमतटीदिव्यकनकासनसंस्थिताय नमः ।
ओं कटीतटपटीभूतकरिचर्मोज्ज्वलाकृतये नमः ।
ओं पाटीरपाण्डुराकारपरिपूर्णसुधाधिपाय नमः ।
ओं जटाकोटीरघटितसुधाकरसुधाप्लुताय नमः ।
ओं पश्यल्ललाटसुभगसुन्दरभ्रूविलासवते नमः ।
ओं कटाक्षसरणीनिर्यत्करुणापूर्णलोचनाय नमः ।
ओं कर्णालोलतटिद्वर्णकुण्डलोज्ज्वलगण्डभुवे नमः ।
ओं तिलप्रसूनसङ्काशनासिकापुटभासुराय नमः ।
ओं मन्दस्मितस्फुरन्मुग्धमहनीयमुखाम्बुजाय नमः ।
ओं कुन्दकुड्मलसंस्पर्धिदन्तपङ्क्तिविराजिताय नमः ।
ओं सिन्दूरारुणसुस्निग्धकोमलाधरपल्लवाय नमः ।
ओं शङ्खाटोपगलद्दिव्यगलवैभवमञ्जुलाय नमः ।
ओं करकन्दलितज्ञानमुद्रारुद्राक्षमालिकाय नमः । २०
ओं अन्यहस्ततलन्यस्तवीणापुस्तोल्लसद्वपुषे नमः ।
ओं विशालरुचिरोरस्कवलिमत्पल्लवोदराय नमः ।
ओं बृहत्कटिनितम्बाढ्याय नमः ।
ओं पीवरोरुद्वयान्विताय नमः ।
ओं जङ्घाविजिततूणीराय नमः ।
ओं तुङ्गगुल्फयुगोज्ज्वलाय नमः ।
ओं मृदुपाटलपादाब्जाय नमः ।
ओं चन्द्राभनखदीधितये नमः ।
ओं अपसव्योरुविन्यस्तसव्यपादसरोरुहाय नमः ।
ओं घोरापस्मारनिक्षिप्तधीरदक्षपदाम्बुजाय नमः ।
ओं सनकादिमुनिध्येयाय नमः ।
ओं सर्वाभरणभूषिताय नमः ।
ओं दिव्यचन्दनलिप्ताङ्गाय नमः ।
ओं चारुहासपरिष्कृताय नमः ।
ओं कर्पूरधवलाकाराय नमः ।
ओं कन्दर्पशतसुन्दराय नमः ।
ओं कात्यायनीप्रेमनिधये नमः ।
ओं करुणारसवारिधये नमः ।
ओं कामितार्थप्रदाय नमः ।
ओं श्रीमत्कमलावल्लभप्रियाय नमः । ४०
ओं कटाक्षितात्मविज्ञानाय नमः ।
ओं कैवल्यानन्दकन्दलाय नमः ।
ओं मन्दहाससमानेन्दवे नमः ।
ओं छिन्नाज्ञानतमस्ततये नमः ।
ओं संसारानलसन्तप्तजनतामृतसागराय नमः ।
ओं गम्भीरहृदयाम्भोजनभोमणिनिभाकृतये नमः ।
ओं निशाकरकराकारवशीकृतजगत्त्रयाय नमः ।
ओं तापसाराध्यपादाब्जाय नमः ।
ओं तरुणानन्दविग्रहाय नमः ।
ओं भूतिभूषितसर्वाङ्गाय नमः ।
ओं भूताधिपतये नमः ।
ओं ईश्वराय नमः ।
ओं वदनेन्दुस्मितज्योत्स्नानिलीनत्रिपुराकृतये नमः ।
ओं तापत्रयतमोभानवे नमः ।
ओं पापारण्यदवानलाय नमः ।
ओं संसारसागरोद्धर्त्रे नमः ।
ओं हंसाग्र्योपास्यविग्रहाय नमः ।
ओं ललाटहुतभुग्दग्धमनोभवशुभाकृतये नमः ।
ओं तुच्छीकृतजगज्जालाय नमः ।
ओं तुषारकरशीतलाय नमः । ६०
ओं अस्तङ्गतसमस्तेच्छाय नमः ।
ओं निस्तुलानन्दमन्थराय नमः ।
ओं धीरोदात्तगुणाधाराय नमः ।
ओं उदारवरवैभवाय नमः ।
ओं अपारकरुणामूर्तये नमः ।
ओं अज्ञानध्वान्तभास्कराय नमः ।
ओं भक्तमानसहंसाग्र्याय नमः ।
ओं भवामयभिषक्तमाय नमः ।
ओं योगीन्द्रपूज्यपादाब्जाय नमः ।
ओं योगपट्टोल्लसत्कटये नमः ।
ओं शुद्धस्फटिकसङ्काशाय नमः ।
ओं बद्धपन्नगभूषणाय नमः ।
ओं नानामुनिसमाकीर्णाय नमः ।
ओं नासाग्रन्यस्तलोचनाय नमः ।
ओं वेदमूर्धैकसंवेद्याय नमः ।
ओं नादध्यानपरायणाय नमः ।
ओं धराधरेन्दवे नमः ।
ओं आनन्दसन्दोहरससागराय नमः ।
ओं द्वैतबृन्दविमोहान्ध्यपराकृतदृगद्भुताय नमः ।
ओं प्रत्यगात्मने नमः । ८०
ओं परस्मैज्योतये नमः ।
ओं पुराणाय नमः ।
ओं परमेश्वराय नमः ।
ओं प्रपञ्चोपशमाय नमः ।
ओं प्राज्ञाय नमः ।
ओं पुण्यकीर्तये नमः ।
ओं पुरातनाय नमः ।
ओं सर्वाधिष्ठानसन्मात्राय नमः ।
ओं स्वात्मबन्धहराय नमः ।
ओं हराय नमः ।
ओं सर्वप्रेमनिजाहासाय नमः ।
ओं सर्वानुग्रहकृते नमः ।
ओं शिवाय नमः ।
ओं सर्वेन्द्रियगुणाभासाय नमः ।
ओं सर्वभूतगुणाश्रयाय नमः ।
ओं सच्चिदानन्दपूर्णात्मने नमः ।
ओं स्वे महिम्नि प्रतिष्ठिताय नमः ।
ओं सर्वभूतान्तराय नमः ।
ओं साक्षिणे नमः ।
ओं सर्वज्ञाय नमः । १००
ओं सर्वकामदाय नमः ।
ओं सनकादिमहायोगिसमाराधितपादुकाय नमः ।
ओं आदिदेवाय नमः ।
ओं दयासिन्धवे नमः ।
ओं शिक्षितासुरविग्रहाय नमः ।
ओं यक्षकिन्नरगन्धर्वस्तूयमानात्मवैभवाय नमः ।
ओं ब्रह्मादिदेवविनुताय नमः ।
ओं योगमायानियोजकाय नमः ।
ओं शिवयोगिने नमः ।
ओं शिवानन्दाय नमः ।
ओं शिवभक्तसमुद्धराय नमः ।
ओं वेदान्तसारसन्दोहाय नमः ।
ओं सर्वसत्त्वावलम्बनाय नमः ।
ओं वटमूलाश्रयाय नमः ।
ओं वाग्मिने नमः ।
ओं मान्याय नमः ।
ओं मलयजप्रियाय नमः ।
ओं सुशीलाय नमः ।
ओं वाञ्छितार्थज्ञाय नमः ।
ओं प्रसन्नवदनेक्षणाय नमः । १२०
ओं नृत्तगीतकलाभिज्ञाय नमः ।
ओं कर्मविदे नमः ।
ओं कर्ममोचकाय नमः ।
ओं कर्मसाक्षिणे नमः ।
ओं कर्ममयाय नमः ।
ओं कर्मणां फलप्रदाय नमः ।
ओं ज्ञानदात्रे नमः ।
ओं सदाचाराय नमः ।
ओं सर्वोपद्रवमोचकाय नमः ।
ओं अनाथनाथाय नमः ।
ओं भगवते नमः ।
ओं आश्रितामरपादपाय नमः ।
ओं वरप्रदाय नमः ।
ओं प्रकाशात्मने नमः ।
ओं सर्वभूतहिते रताय नमः ।
ओं व्याघ्रचर्मासनासीनाय नमः ।
ओं आदिकर्त्रे नमः ।
ओं महेश्वराय नमः ।
ओं सुविक्रमाय नमः ।
ओं सर्वगताय नमः । १४०
ओं विशिष्टजनवत्सलाय नमः ।
ओं चिन्ताशोकप्रशमनाय नमः ।
ओं जगदानन्दकारकाय नमः ।
ओं रश्मिमते नमः ।
ओं भुवनेशाय नमः ।
ओं देवासुरसुपूजिताय नमः ।
ओं मृत्युञ्जयाय नमः ।
ओं व्योमकेशाय नमः ।
ओं षट्त्रिंशत्तत्त्वसङ्ग्रहाय नमः ।
ओं अज्ञातसम्भवाय नमः ।
ओं भिक्षवे नमः ।
ओं अद्वितीयाय नमः ।
ओं दिगम्बराय नमः ।
ओं समस्तदेवतामूर्तये नमः ।
ओं सोमसूर्याग्निलोचनाय नमः ।
ओं सर्वसाम्राज्यनिपुणाय नमः ।
ओं धर्ममार्गप्रवर्तकाय नमः ।
ओं विश्वाधिकाय नमः ।
ओं पशुपतये नमः ।
ओं पशुपाशविमोचकाय नमः । १६०
ओं अष्टमूर्तये नमः ।
ओं दीप्तमूर्तये नमः ।
ओं नामोच्चारणमुक्तिदाय नमः ।
ओं सहस्रादित्यसङ्काशाय नमः ।
ओं सदाषोडशवार्षिकाय नमः ।
ओं दिव्यकेलीसमायुक्ताय नमः ।
ओं दिव्यमाल्याम्बरावृताय नमः ।
ओं अनर्घरत्नसम्पूर्णाय नमः ।
ओं मल्लिकाकुसुमप्रियाय नमः ।
ओं तप्तचामीकराकाराय नमः ।
ओं जितदावानलाकृतये नमः ।
ओं निरञ्जनाय नमः ।
ओं निर्विकाराय नमः ।
ओं निजावासाय नमः ।
ओं निराकृतये नमः ।
ओं जगद्गुरवे नमः ।
ओं जगत्कर्त्रे नमः ।
ओं जगदीशाय नमः ।
ओं जगत्पतये नमः ।
ओं कामहन्त्रे नमः । १८०
ओं काममूर्तये नमः ।
ओं कल्याणवृषवाहनाय नमः ।
ओं गङ्गाधराय नमः ।
ओं महादेवाय नमः ।
ओं दीनबन्धविमोचकाय नमः ।
ओं धूर्जटये नमः ।
ओं खण्डपरशवे नमः ।
ओं सद्गुणाय नमः ।
ओं गिरिजासखाय नमः ।
ओं अव्ययाय नमः ।
ओं भूतसेनेशाय नमः ।
ओं पापघ्नाय नमः ।
ओं पुण्यदायकाय नमः ।
ओं उपदेष्ट्रे नमः ।
ओं दृढप्रज्ञाय नमः ।
ओं रुद्राय नमः ।
ओं रोगविनाशनाय नमः ।
ओं नित्यानन्दाय नमः ।
ओं निराधाराय नमः ।
ओं हराय नमः । २००
ओं देवशिखामणये नमः ।
ओं प्रणतार्तिहराय नमः ।
ओं सोमाय नमः ।
ओं सान्द्रानन्दाय नमः ।
ओं महामतये नमः ।
ओं आश्चर्यवैभवाय नमः ।
ओं देवाय नमः ।
ओं संसारार्णवतारकाय नमः ।
ओं यज्ञेशाय नमः ।
ओं राजराजेशाय नमः ।
ओं भस्मरुद्राक्षलाञ्छनाय नमः ।
ओं अनन्ताय नमः ।
ओं तारकाय नमः ।
ओं स्थाणवे नमः ।
ओं सर्वविद्येश्वराय नमः ।
ओं हरये नमः ।
ओं विश्वरूपाय नमः ।
ओं विरूपाक्षाय नमः ।
ओं प्रभवे नमः ।
ओं परिबृढाय नमः । २२०
ओं दृढाय नमः ।
ओं भव्याय नमः ।
ओं जितारिषड्वर्गाय नमः ।
ओं महोदाराय नमः ।
ओं विषाशनाय नमः ।
ओं सुकीर्तये नमः ।
ओं आदिपुरुषाय नमः ।
ओं जरामरणवर्जिताय नमः ।
ओं प्रमाणभूताय नमः ।
ओं दुर्ज्ञेयाय नमः ।
ओं पुण्याय नमः ।
ओं परपुरञ्जयाय नमः ।
ओं गुणाकाराय नमः ।
ओं गुणश्रेष्ठाय नमः ।
ओं सच्चिदानन्दविग्रहाय नमः ।
ओं सुखदाय नमः ।
ओं कारणाय नमः ।
ओं कर्त्रे नमः ।
ओं भवबन्धविमोचकाय नमः ।
ओं अनिर्विण्णाय नमः । २४०
ओं गुणग्राहिणे नमः ।
ओं निष्कलङ्काय नमः ।
ओं कलङ्कघ्ने नमः ।
ओं पुरुषाय नमः ।
ओं शाश्वताय नमः ।
ओं योगिने नमः ।
ओं व्यक्ताव्यक्ताय नमः ।
ओं सनातनाय नमः ।
ओं चराचरात्मने नमः ।
ओं सूक्ष्मात्मने नमः ।
ओं विश्वकर्मणे नमः ।
ओं तमोपहृते नमः ।
ओं भुजङ्गभूषणाय नमः ।
ओं भर्गाय नमः ।
ओं तरुणाय नमः ।
ओं करुणालयाय नमः ।
ओं अणिमादिगुणोपेताय नमः ।
ओं लोकवश्यविधायकाय नमः ।
ओं योगपट्टधराय नमः ।
ओं मुक्ताय नमः । २६०
ओं मुक्तानां परमायै गतये नमः ।
ओं गुरुरूपधराय नमः ।
ओं श्रीमत्परमानन्दसागराय नमः ।
ओं सहस्रबाहवे नमः ।
ओं सर्वेशाय नमः ।
ओं सहस्रावयवान्विताय नमः ।
ओं सहस्रमूर्ध्ने नमः ।
ओं सर्वात्मने नमः ।
ओं सहस्राक्षाय नमः ।
ओं सहस्रपदे नमः ।
ओं निराभासाय नमः ।
ओं सूक्ष्मतनवे नमः ।
ओं हृदि ज्ञाताय नमः ।
ओं परात्पराय नमः ।
ओं सर्वात्मगाय नमः ।
ओं सर्वसाक्षिणे नमः ।
ओं निःसङ्गाय नमः ।
ओं निरुपद्रवाय नमः ।
ओं निष्कलाय नमः ।
ओं सकलाध्यक्षाय नमः । २८०
ओं चिन्मयाय नमः ।
ओं तमसः पराय नमः ।
ओं ज्ञानवैराग्यसम्पन्नाय नमः ।
ओं योगानन्दमयाय शिवाय नमः ।
ओं शाश्वतैश्वर्यसम्पूर्णाय नमः ।
ओं महायोगीश्वरेश्वराय नमः ।
ओं सहस्रशक्तिसम्युक्ताय नमः ।
ओं पुण्यकायाय नमः ।
ओं दुरासदाय नमः ।
ओं तारकब्रह्मसम्पूर्णाय नमः ।
ओं तपस्विजनसंवृताय नमः ।
ओं विधीन्द्रामरसम्पूज्याय नमः ।
ओं ज्योतिषां ज्योतिषे नमः ।
ओं उत्तमाय नमः ।
ओं निरक्षराय नमः ।
ओं निरालम्बाय नमः ।
ओं स्वात्मारामाय नमः ।
ओं विकर्तनाय नमः ।
ओं निरवद्याय नमः ।
ओं निरातङ्काय नमः । ३००
ओं भीमाय नमः ।
ओं भीमपराक्रमाय नमः ।
ओं वीरभद्राय नमः ।
ओं पुरारातये नमः ।
ओं जलन्धरशिरोहराय नमः ।
ओं अन्धकासुरसंहर्त्रे नमः ।
ओं भगनेत्रभिदे नमः ।
ओं अद्भुताय नमः ।
ओं विश्वग्रासाय नमः ।
ओं अधर्मशत्रवे नमः ।
ओं ब्रह्मज्ञानैकमन्थराय नमः ।
ओं अग्रेसराय नमः ।
ओं तीर्थभूताय नमः ।
ओं सितभस्मावकुण्ठनाय नमः ।
ओं अकुण्ठमेधसे नमः ।
ओं श्रीकण्ठाय नमः ।
ओं वैकुण्ठपरमप्रियाय नमः ।
ओं ललाटोज्ज्वलनेत्राब्जाय नमः ।
ओं तुषारकरशेखराय नमः ।
ओं गजासुरशिरश्छेत्त्रे नमः । ३२०
ओं गङ्गोद्भासितमूर्धजाय नमः ।
ओं कल्याणाचलकोदण्डाय नमः ।
ओं कमलापतिसायकाय नमः ।
ओं वारांशेवधितूणीराय नमः ।
ओं सरोजासनसारथये नमः ।
ओं त्रयीतुरङ्गसङ्क्रान्ताय नमः ।
ओं वासुकिज्याविराजिताय नमः ।
ओं रवीन्दुचरणाचारिधरारथविराजिताय नमः ।
ओं त्रय्यन्तप्रग्रहोदारचारुघण्टारवोज्ज्वलाय नमः ।
ओं उत्तानपर्वलोमाढ्याय नमः ।
ओं लीलाविजितमन्मथाय नमः ।
ओं जातुप्रपन्नजनताजीवनोपायनोत्सुकाय नमः ।
ओं संसारार्णवनिर्मग्नसमुद्धरणपण्डिताय नमः ।
ओं मदद्विरदधिक्कारिगतिमञ्जुलवैभवाय नमः ।
ओं मत्तकोकिलमाधुर्यरसनिर्भरगीर्गणाय नमः ।
ओं कैवल्योदधिकल्लोललीलाताण्डवपण्डिताय नमः ।
ओं विष्णवे नमः ।
ओं जिष्णवे नमः ।
ओं वासुदेवाय नमः ।
ओं प्रभविष्णवे नमः । ३४०
ओं पुरातनाय नमः ।
ओं वर्धिष्णवे नमः ।
ओं वरदाय नमः ।
ओं वैद्याय नमः ।
ओं हरये नमः ।
ओं नारायणाय नमः ।
ओं अच्युताय नमः ।
ओं अज्ञानवनदावाग्नये नमः ।
ओं प्रज्ञाप्रासादभूपतये नमः ।
ओं सर्पभूषितसर्वाङ्गाय नमः ।
ओं कर्पूरोज्ज्वलिताकृतये नमः ।
ओं अनादिमध्यनिधनाय नमः ।
ओं गिरीशाय नमः ।
ओं गिरिजापतये नमः ।
ओं वीतरागाय नमः ।
ओं विनीतात्मने नमः ।
ओं तपस्विने नमः ।
ओं भूतभावनाय नमः ।
ओं देवासुरगुरुध्येयाय नमः ।
ओं देवासुरनमस्कृताय नमः । ३६०
ओं देवादिदेवाय नमः ।
ओं देवर्षये नमः ।
ओं देवासुरवरप्रदाय नमः ।
ओं सर्वदेवमयाय नमः ।
ओं अचिन्त्याय नमः ।
ओं देवात्मने नमः ।
ओं आत्मसम्भवाय नमः ।
ओं निर्लेपाय नमः ।
ओं निष्प्रपञ्चात्मने नमः ।
ओं निर्विघ्नाय नमः ।
ओं विघ्ननाशकाय नमः ।
ओं एकज्योतिषे नमः ।
ओं निरातङ्काय नमः ।
ओं व्याप्तमूर्तये नमः ।
ओं अनाकुलाय नमः ।
ओं निरवद्यपदोपाधये नमः ।
ओं विद्याराशये नमः ।
ओं अनुत्तमाय नमः ।
ओं नित्यानन्दाय नमः ।
ओं सुराध्यक्षाय नमः । ३८०
ओं निःसङ्कल्पाय नमः ।
ओं निरञ्जनाय नमः ।
ओं निष्कलङ्काय नमः ।
ओं निराकाराय नमः ।
ओं निष्प्रपञ्चाय नमः ।
ओं निरामयाय नमः ।
ओं विद्याधराय नमः ।
ओं वियत्केशाय नमः ।
ओं मार्कण्डेयवरप्रदाय नमः ।
ओं भैरवाय नमः ।
ओं भैरवीनाथाय नमः ।
ओं कामदाय नमः ।
ओं कमलासनाय नमः ।
ओं वेदवेद्याय नमः ।
ओं सुरानन्दाय नमः ।
ओं लसज्ज्योतिषे नमः ।
ओं प्रभाकराय नमः ।
ओं चूडामणये नमः ।
ओं सुराधीशाय नमः ।
ओं यज्ञगेयाय नमः । ४००
ओं हरिप्रियाय नमः ।
ओं निर्लेपाय नमः ।
ओं नीतिमते नमः ।
ओं सूत्रिणे नमः ।
ओं श्रीहालाहलसुन्दराय नमः ।
ओं धर्मदक्षाय नमः ।
ओं महाराजाय नमः ।
ओं किरीटिने नमः ।
ओं वन्दिताय नमः ।
ओं गुहाय नमः ।
ओं माधवाय नमः ।
ओं यामिनीनाथाय नमः ।
ओं शम्बराय नमः ।
ओं शबरीप्रियाय नमः ।
ओं सङ्गीतवेत्त्रे नमः ।
ओं लोकज्ञाय नमः ।
ओं शान्ताय नमः ।
ओं कलशसम्भवाय नमः ।
ओं ब्रह्मण्याय नमः ।
ओं वरदाय नमः । ४२०
ओं नित्याय नमः ।
ओं शूलिने नमः ।
ओं गुरुवराय हराय नमः ।
ओं मार्ताण्डाय नमः ।
ओं पुण्डरीकाक्षाय नमः ।
ओं लोकनायकविक्रमाय नमः ।
ओं मुकुन्दार्च्याय नमः ।
ओं वैद्यनाथाय नमः ।
ओं पुरन्दरवरप्रदाय नमः ।
ओं भाषाविहीनाय नमः ।
ओं भाषाज्ञाय नमः ।
ओं विघ्नेशाय नमः ।
ओं विघ्ननाशनाय नमः ।
ओं किन्नरेशाय नमः ।
ओं बृहद्भानवे नमः ।
ओं श्रीनिवासाय नमः ।
ओं कपालभृते नमः ।
ओं विजयाय नमः ।
ओं भूतभावज्ञाय नमः ।
ओं भीमसेनाय नमः । ४४०
ओं दिवाकराय नमः ।
ओं बिल्वप्रियाय नमः ।
ओं वसिष्ठेशाय नमः ।
ओं सर्वमार्गप्रवर्तकाय नमः ।
ओं ओषधीशाय नमः ।
ओं वामदेवाय नमः ।
ओं गोविन्दाय नमः ।
ओं नीललोहिताय नमः ।
ओं षडर्धनयनाय नमः ।
ओं श्रीमन्महादेवाय नमः ।
ओं वृषध्वजाय नमः ।
ओं कर्पूरदीपिकालोलाय नमः ।
ओं कर्पूररसचर्चिताय नमः ।
ओं अव्याजकरुणामूर्तये नमः ।
ओं त्यागराजाय नमः ।
ओं क्षपाकराय नमः ।
ओं आश्चर्यविग्रहाय नमः ।
ओं सूक्ष्माय नमः ।
ओं सिद्धेशाय नमः ।
ओं स्वर्णभैरवाय नमः । ४६०
ओं देवराजाय नमः ।
ओं कृपासिन्धवे नमः ।
ओं अद्वयाय नमः ।
ओं अमितविक्रमाय नमः ।
ओं निर्भेदाय नमः ।
ओं नित्यसत्वस्थाय नमः ।
ओं निर्योगक्षेमाय नमः ।
ओं आत्मवते नमः ।
ओं निरपायाय नमः ।
ओं निरासङ्गाय नमः ।
ओं निःशब्दाय नमः ।
ओं निरुपाधिकाय नमः ।
ओं भवाय नमः ।
ओं सर्वेश्वराय नमः ।
ओं स्वामिने नमः ।
ओं भवभीतिविभञ्जनाय नमः ।
ओं दारिद्र्यतृणकूटाग्नये नमः ।
ओं दारितासुरसन्ततये नमः ।
ओं मुक्तिदाय नमः ।
ओं मुदिताय नमः । ४८०
ओं अकुब्जाय नमः ।
ओं धार्मिकाय नमः ।
ओं भक्तवत्सलाय नमः ।
ओं अभ्यासातिशयज्ञेयाय नमः ।
ओं चन्द्रमौलये नमः ।
ओं कलाधराय नमः ।
ओं महाबलाय नमः ।
ओं महावीर्याय नमः ।
ओं विभवे नमः ।
ओं श्रीशाय नमः ।
ओं शुभप्रदाय नमः ।
ओं सिद्धाय नमः ।
ओं पुराणपुरुषाय नमः ।
ओं रणमण्डलभैरवाय नमः ।
ओं सद्योजाताय नमः ।
ओं वटारण्यवासिने नमः ।
ओं पुरुषवल्लभाय नमः ।
ओं हरिकेशाय नमः ।
ओं महात्रात्रे नमः ।
ओं नीलग्रीवाय नमः । ५००
ओं सुमङ्गलाय नमः ।
ओं हिरण्यबाहवे नमः ।
ओं तीक्ष्णांशवे नमः ।
ओं कामेशाय नमः ।
ओं सोमविग्रहाय नमः ।
ओं सर्वात्मने नमः ।
ओं सर्वकर्त्रे नमः ।
ओं ताण्डवाय नमः ।
ओं मुण्डमालिकाय नमः ।
ओं अग्रगण्याय नमः ।
ओं सुगम्भीराय नमः ।
ओं देशिकाय नमः ।
ओं वैदिकोत्तमाय नमः ।
ओं प्रसन्नदेवाय नमः ।
ओं वागीशाय नमः ।
ओं चिन्तातिमिरभास्कराय नमः ।
ओं गौरीपतये नमः ।
ओं तुङ्गमौलये नमः ।
ओं मखराजाय नमः ।
ओं महाकवये नमः । ५२०
ओं श्रीधराय नमः ।
ओं सर्वसिद्धेशाय नमः ।
ओं विश्वनाथाय नमः ।
ओं दयानिधये नमः ।
ओं अन्तर्मुखाय नमः ।
ओं बहिर्दृष्टये नमः ।
ओं सिद्धवेषमनोहराय नमः ।
ओं कृत्तिवाससे नमः ।
ओं कृपासिन्धवे नमः ।
ओं मन्त्रसिद्धाय नमः ।
ओं मतिप्रदाय नमः ।
ओं महोत्कृष्टाय नमः ।
ओं पुण्यकराय नमः ।
ओं जगत्साक्षिणे नमः ।
ओं सदाशिवाय नमः ।
ओं महाक्रतवे नमः ।
ओं महायज्वने नमः ।
ओं विश्वकर्मणे नमः ।
ओं तपोनिधये नमः ।
ओं छन्दोमयाय नमः । ५४०
ओं महाज्ञानिने नमः ।
ओं सर्वज्ञाय नमः ।
ओं देववन्दिताय नमः ।
ओं सार्वभौमाय नमः ।
ओं सदानन्दाय नमः ।
ओं करुणामृतवारिधये नमः ।
ओं कालकालाय नमः ।
ओं कलिध्वंसिने नमः ।
ओं जरामरणनाशकाय नमः ।
ओं शितिकण्ठाय नमः ।
ओं चिदानन्दाय नमः ।
ओं योगिनीगणसेविताय नमः ।
ओं चण्डीशाय नमः ।
ओं शुकसंवेद्याय नमः ।
ओं पुण्यश्लोकाय नमः ।
ओं दिवस्पतये नमः ।
ओं स्थायिने नमः ।
ओं सकलतत्त्वात्मने नमः ।
ओं सदासेवकवर्धनाय नमः ।
ओं रोहिताश्वाय नमः । ५६०
ओं क्षमारूपिणे नमः ।
ओं तप्तचामीकरप्रभाय नमः ।
ओं त्रियम्बकाय नमः ।
ओं वररुचये नमः ।
ओं देवदेवाय नमः ।
ओं चतुर्भुजाय नमः ।
ओं विश्वम्भराय नमः ।
ओं विचित्राङ्गाय नमः ।
ओं विधात्रे नमः ।
ओं पुरशासनाय नमः ।
ओं सुब्रह्मण्याय नमः ।
ओं जगत्स्वामिने नमः ।
ओं रोहिताक्षाय नमः ।
ओं शिवोत्तमाय नमः ।
ओं नक्षत्रमालाभरणाय नमः ।
ओं मघवते नमः ।
ओं अघनाशनाय नमः ।
ओं विधिकर्त्रे नमः ।
ओं विधानज्ञाय नमः ।
ओं प्रधानपुरुषेश्वराय नमः । ५८०
ओं चिन्तामणये नमः ।
ओं सुरगुरवे नमः ।
ओं ध्येयाय नमः ।
ओं नीराजनप्रियाय नमः ।
ओं गोविन्दाय नमः ।
ओं राजराजेशाय नमः ।
ओं बहुपुष्पार्चनप्रियाय नमः ।
ओं सर्वानन्दाय नमः ।
ओं दयारूपिणे नमः ।
ओं शैलजासुमनोहराय नमः ।
ओं सुविक्रमाय नमः ।
ओं सर्वगताय नमः ।
ओं हेतुसाधनवर्जिताय नमः ।
ओं वृषाङ्काय नमः ।
ओं रमणीयाङ्गाय नमः ।
ओं सदङ्घ्रये नमः ।
ओं सामपारगाय नमः ।
ओं मन्त्रात्मने नमः ।
ओं कोटिकन्दर्पसौन्दर्यरसवारिधये नमः ।
ओं यज्ञेशाय नमः । ६००
ओं यज्ञपुरुषाय नमः ।
ओं सृष्टिस्थित्यन्तकारणाय नमः ।
ओं परहंसैकजिज्ञास्याय नमः ।
ओं स्वप्रकाशस्वरूपवते नमः ।
ओं मुनिमृग्याय नमः ।
ओं देवमृग्याय नमः ।
ओं मृगहस्ताय नमः ।
ओं मृगेश्वराय नमः ।
ओं मृगेन्द्रचर्मवसनाय नमः ।
ओं नरसिंहनिपातनाय नमः ।
ओं मुनिवन्द्याय नमः ।
ओं मुनिश्रेष्ठाय नमः ।
ओं मुनिबृन्दनिषेविताय नमः ।
ओं दुष्टमृत्यवे नमः ।
ओं अदुष्टेहाय नमः ।
ओं मृत्युघ्ने नमः ।
ओं मृत्युपूजिताय नमः ।
ओं अव्यक्ताय नमः ।
ओं अम्बुजजन्मादिकोटिकोटिसुपूजिताय नमः ।
ओं लिङ्गमूर्तये नमः । ६२०
ओं अलिङ्गात्मने नमः ।
ओं लिङ्गात्मने नमः ।
ओं लिङ्गविग्रहाय नमः ।
ओं यजुर्मूर्तये नमः ।
ओं साममूर्तये नमः ।
ओं ऋङ्मूर्तये नमः ।
ओं मूर्तिवर्जिताय नमः ।
ओं विश्वेशाय नमः ।
ओं गजचर्मैकचेलाञ्चितकटीतटाय नमः ।
ओं पावनान्तेवसद्योगिजनसार्थसुधाकराय नमः ।
ओं अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभाय नमः ।
ओं चिन्ताशोकप्रशमनाय नमः ।
ओं सर्वविद्याविशारदाय नमः ।
ओं भक्तविज्ञप्तिसन्धात्रे नमः ।
ओं कर्त्रे नमः ।
ओं गिरिवराकृतये नमः ।
ओं ज्ञानप्रदाय नमः ।
ओं मनोवासाय नमः ।
ओं क्षेम्याय नमः ।
ओं मोहविनाशनाय नमः । ६४०
ओं सुरोत्तमाय नमः ।
ओं चित्रभानवे नमः ।
ओं सदावैभवतत्पराय नमः ।
ओं सुहृदग्रेसराय नमः ।
ओं सिद्धज्ञानमुद्राय नमः ।
ओं गणाधिपाय नमः ।
ओं आगमाय नमः ।
ओं चर्मवसनाय नमः ।
ओं वाञ्छितार्थफलप्रदाय नमः ।
ओं अन्तर्हिताय नमः ।
ओं असमानाय नमः ।
ओं देवसिंहासनाधिपाय नमः ।
ओं विवादहन्त्रे नमः ।
ओं सर्वात्मने नमः ।
ओं कालाय नमः ।
ओं कालविवर्जिताय नमः ।
ओं विश्वातीताय नमः ।
ओं विश्वकर्त्रे नमः ।
ओं विश्वेशाय नमः ।
ओं विश्वकारणाय नमः । ६६०
ओं योगिध्येयाय नमः ।
ओं योगनिष्ठाय नमः ।
ओं योगात्मने नमः ।
ओं योगवित्तमाय नमः ।
ओं ओङ्काररूपाय नमः ।
ओं भगवते नमः ।
ओं बिन्दुनादमयाय शिवाय नमः ।
ओं चतुर्मुखादिसंस्तुत्याय नमः ।
ओं चतुर्वर्गफलप्रदाय नमः ।
ओं सह्याचलगुहावासिने नमः ।
ओं साक्षान्मोक्षरसामृताय नमः ।
ओं दक्षाध्वरसमुच्छेत्त्रे नमः ।
ओं पक्षपातविवर्जिताय नमः ।
ओं ओङ्कारवाचकाय नमः ।
ओं शम्भवे नमः ।
ओं शङ्कराय नमः ।
ओं शशिशीतलाय नमः ।
ओं पङ्कजासनसंसेव्याय नमः ।
ओं किङ्करामरवत्सलाय नमः ।
ओं नतदौर्भाग्यतूलाग्नये नमः । ६८०
ओं कृतकौतुकमङ्गलाय नमः ।
ओं त्रिलोकमोहनाय नमः ।
ओं श्रीमत्त्रिपुण्ड्राङ्कितमस्तकाय नमः ।
ओं क्रौञ्चारिजनकाय नमः ।
ओं श्रीमद्गणनाथसुतान्विताय नमः ।
ओं अद्भुतानन्तवरदाय नमः ।
ओं अपरिच्छिनात्मवैभवाय नमः ।
ओं इष्टापूर्तप्रियाय नमः ।
ओं शर्वाय नमः ।
ओं एकवीराय नमः ।
ओं प्रियंवदाय नमः ।
ओं ऊहापोहविनिर्मुक्ताय नमः ।
ओं ओङ्कारेश्वरपूजिताय नमः ।
ओं रुद्राक्षवक्षसे नमः ।
ओं रुद्राक्षरूपाय नमः ।
ओं रुद्राक्षपक्षकाय नमः ।
ओं भुजगेन्द्रलसत्कण्ठाय नमः ।
ओं भुजङ्गाभरणप्रियाय नमः ।
ओं कल्याणरूपाय नमः ।
ओं कल्याणाय नमः । ७००
ओं कल्याणगुणसंश्रयाय नमः ।
ओं सुन्दरभ्रुवे नमः ।
ओं सुनयनाय नमः ।
ओं सुललाटाय नमः ।
ओं सुकन्धराय नमः ।
ओं विद्वज्जनाश्रयाय नमः ।
ओं विद्वज्जनस्तव्यपराक्रमाय नमः ।
ओं विनीतवत्सलाय नमः ।
ओं नीतिस्वरूपाय नमः ।
ओं नीतिसंश्रयाय नमः ।
ओं अतिरागिणे नमः ।
ओं वीतरागिणे नमः ।
ओं रागहेतवे नमः ।
ओं विरागविदे नमः ।
ओं रागघ्ने नमः ।
ओं रागशमनाय नमः ।
ओं रागदाय नमः ।
ओं रागिरागविदे नमः ।
ओं मनोन्मनाय नमः ।
ओं मनोरूपाय नमः । ७२०
ओं बलप्रमथनाय नमः ।
ओं बलाय नमः ।
ओं विद्याकराय नमः ।
ओं महाविद्याय नमः ।
ओं विद्याविद्याविशारदाय नमः ।
ओं वसन्तकृते नमः ।
ओं वसन्तात्मने नमः ।
ओं वसन्तेशाय नमः ।
ओं वसन्तदाय नमः ।
ओं प्रावृट्कृते नमः ।
ओं प्रावृडाकाराय नमः ।
ओं प्रावृट्कालप्रवर्तकाय नमः ।
ओं शरन्नाथाय नमः ।
ओं शरत्कालनाशकाय नमः ।
ओं शरदाश्रयाय नमः ।
ओं कुन्दमन्दारपुष्पौघलसद्वायुनिषेविताय नमः ।
ओं दिव्यदेहप्रभाकूटसन्दीपितदिगन्तराय नमः ।
ओं देवासुरगुरुस्तव्याय नमः ।
ओं देवासुरनमस्कृताय नमः ।
ओं वामाङ्गभागविलसच्छ्यामलावीक्षणप्रियाय नमः । ७४०
ओं कीर्त्याधाराय नमः ।
ओं कीर्तिकराय नमः ।
ओं कीर्तिहेतवे नमः ।
ओं अहेतुकाय नमः ।
ओं शरणागतदीनार्तपरित्राणपरायणाय नमः ।
ओं महाप्रेतासनासीनाय नमः ।
ओं जितसर्वपितामहाय नमः ।
ओं मुक्तादामपरीताङ्गाय नमः ।
ओं नानागानविशारदाय नमः ।
ओं विष्णुब्रह्मादिवन्द्याङ्घ्रये नमः ।
ओं नानादेशैकनायकाय नमः ।
ओं धीरोदात्ताय नमः ।
ओं महाधीराय नमः ।
ओं धैर्यदाय नमः ।
ओं धैर्यवर्धकाय नमः ।
ओं विज्ञानमयाय नमः ।
ओं आनन्दमयाय नमः ।
ओं प्राणमयाय नमः ।
ओं अन्नदाय नमः ।
ओं भवाब्धितरणोपायाय नमः । ७६०
ओं कवये नमः ।
ओं दुःस्वप्ननाशनाय नमः ।
ओं गौरीविलाससदनाय नमः ।
ओं पिशचानुचरावृताय नमः ।
ओं दक्षिणाप्रेमसन्तुष्टाय नमः ।
ओं दारिद्र्यवडवानलाय नमः ।
ओं अद्भुतानन्तसङ्ग्रामाय नमः ।
ओं डक्कावादनतत्पराय नमः ।
ओं प्राच्यात्मने नमः ।
ओं दक्षिणाकाराय नमः ।
ओं प्रतीच्यात्मने नमः ।
ओं उत्तराकृतये नमः ।
ओं ऊर्ध्वाद्यन्यदिगाकाराय नमः ।
ओं मर्मज्ञाय नमः ।
ओं सर्वशिक्षकाय नमः ।
ओं युगावहाय नमः ।
ओं युगाधीशाय नमः ।
ओं युगात्मने नमः ।
ओं युगनायकाय नमः ।
ओं जङ्गमाय नमः । ७८०
ओं स्थावराकाराय नमः ।
ओं कैलासशिखरप्रियाय नमः ।
ओं हस्तराजत्पुण्डरीकाय नमः ।
ओं पुण्डरीकनिभेक्षणाय नमः ।
ओं लीलाविडम्बितवपुषे नमः ।
ओं भक्तमानसमण्डिताय नमः ।
ओं बृन्दारकप्रियतमाय नमः ।
ओं बृन्दारकवरार्चिताय नमः ।
ओं नानाविधानेकरत्नलसत्कुण्डलमण्डिताय नमः ।
ओं निःसीममहिम्ने नमः ।
ओं नित्यलीलाविग्रहरूपधृते नमः ।
ओं चन्दनद्रवदिग्धाङ्गाय नमः ।
ओं चाम्पेयकुसुमार्चिताय नमः ।
ओं समस्तभक्तसुखदाय नमः ।
ओं परमाणवे नमः ।
ओं महाह्रदाय नमः ।
ओं अलौकिकाय नमः ।
ओं दुष्प्रधर्षाय नमः ।
ओं कपिलाय नमः ।
ओं कालकन्धराय नमः । ८००
ओं कर्पूरगौराय नमः ।
ओं कुशलाय नमः ।
ओं सत्यसन्धाय नमः ।
ओं जितेन्द्रियाय नमः ।
ओं शाश्वतैश्वर्यविभवाय नमः ।
ओं पोषकाय नमः ।
ओं सुसमाहिताय नमः ।
ओं महर्षिनाथिताय नमः ।
ओं ब्रह्मयोनये नमः ।
ओं सर्वोत्तमोत्तमाय नमः ।
ओं भूमिभारार्तिसंहर्त्रे नमः ।
ओं षडूर्मिरहिताय नमः ।
ओं मृडाय नमः ।
ओं त्रिविष्टपेश्वराय नमः ।
ओं सर्वहृदयाम्बुजमध्यगाय नमः ।
ओं सहस्रदलपद्मस्थाय नमः ।
ओं सर्ववर्णोपशोभिताय नमः ।
ओं पुण्यमूर्तये नमः ।
ओं पुण्यलभ्याय नमः ।
ओं पुण्यश्रवणकीर्तनाय नमः । ८२०
ओं सूर्यमण्डलमध्यस्थाय नमः ।
ओं चन्द्रमण्डलमध्यगाय नमः ।
ओं सद्भक्तध्याननिगलाय नमः ।
ओं शरणागतपालकाय नमः ।
ओं श्वेतातपत्ररुचिराय नमः ।
ओं श्वेतचामरवीजिताय नमः ।
ओं सर्वावयवसम्पूर्णाय नमः ।
ओं सर्वलक्षणलक्षिताय नमः ।
ओं सर्वमङ्गलमाङ्गल्याय नमः ।
ओं सर्वकारणकारणाय नमः ।
ओं आमोदाय नमः ।
ओं मोदजनकाय नमः ।
ओं सर्पराजोत्तरीयकाय नमः ।
ओं कपालिने नमः ।
ओं कोविदाय नमः ।
ओं सिद्धकान्तिसंवलिताननाय नमः ।
ओं सर्वसद्गुरुसंसेव्याय नमः ।
ओं दिव्यचन्दनचर्चिताय नमः ।
ओं विलासिनीकृतोल्लासाय नमः ।
ओं इच्छाशक्तिनिषेविताय नमः । ८४०
ओं अनन्तानन्दसुखदाय नमः ।
ओं नन्दनाय नमः ।
ओं श्रीनिकेतनाय नमः ।
ओं अमृताब्धिकृतावासाय नमः ।
ओं नित्यक्लीबाय नमः ।
ओं निरामयाय नमः ।
ओं अनपायाय नमः ।
ओं अनन्तदृष्टये नमः ।
ओं अप्रमेयाय नमः ।
ओं अजराय नमः ।
ओं अमराय नमः ।
ओं तमोमोहप्रतिहतये नमः ।
ओं अप्रतर्क्याय नमः ।
ओं अमृताय नमः ।
ओं अक्षराय नमः ।
ओं अमोघबुद्धये नमः ।
ओं आधाराय नमः ।
ओं आधाराधेयवर्जिताय नमः ।
ओं ईषणात्रयनिर्मुक्ताय नमः ।
ओं इहामुत्रविवर्जिताय नमः । ८६०
ओं ऋग्यजुःसामनयनाय नमः ।
ओं बुद्धिसिद्धिसमृद्धिदाय नमः ।
ओं औदार्यनिधये नमः ।
ओं आपूर्णाय नमः ।
ओं ऐहिकामुष्मिकप्रदाय नमः ।
ओं शुद्धसन्मात्रसंविद्धीस्वरूपसुखविग्रहाय नमः ।
ओं दर्शनप्रथमाभासाय नमः ।
ओं दृष्टिदृश्यविवर्जिताय नमः ।
ओं अग्रगण्याय नमः ।
ओं अचिन्त्यरूपाय नमः ।
ओं कलिकल्मषनाशनाय नमः ।
ओं विमर्शरूपाय नमः ।
ओं विमलाय नमः ।
ओं नित्यरूपाय नमः ।
ओं निराश्रयाय नमः ।
ओं नित्यशुद्धाय नमः ।
ओं नित्यबुद्धाय नमः ।
ओं नित्यमुक्ताय नमः ।
ओं अपराकृताय नमः ।
ओं मैत्र्यादिवासनालभ्याय नमः । ८८०
ओं महाप्रलयसंस्थिताय नमः ।
ओं महाकैलासनिलयाय नमः ।
ओं प्रज्ञानघनविग्रहाय नमः ।
ओं श्रीमते नमः ।
ओं व्याघ्रपुरावासाय नमः ।
ओं भुक्तिमुक्तिप्रदायकाय नमः ।
ओं जगद्योनये नमः ।
ओं जगत्साक्षिणे नमः ।
ओं जगदीशाय नमः ।
ओं जगन्मयाय नमः ।
ओं जपाय नमः ।
ओं जपपराय नमः ।
ओं जप्याय नमः ।
ओं विद्यासिंहासनप्रभवे नमः ।
ओं तत्त्वानां प्रकृतये नमः ।
ओं तत्त्वाय नमः ।
ओं तत्त्वम्पदनिरूपिताय नमः ।
ओं दिक्कालाद्यनवच्छिन्नाय नमः ।
ओं सहजानन्दसागराय नमः ।
ओं प्रकृतये नमः । ९००
ओं प्राकृतातीताय नमः ।
ओं विज्ञानैकरसाकृतये नमः ।
ओं निःशङ्कमतिदूरस्थाय नमः ।
ओं चैत्यचेतनचिन्तनाय नमः ।
ओं तारकानां हृदन्तस्थाय नमः ।
ओं तारकाय नमः ।
ओं तारकान्तकाय नमः ।
ओं ध्यानैकप्रकटाय नमः ।
ओं ध्येयाय नमः ।
ओं ध्यानिने नमः ।
ओं ध्यानविभूषणाय नमः ।
ओं परस्मै व्योम्ने नमः ।
ओं परस्मै धाम्ने नमः ।
ओं परमात्मने नमः ।
ओं परस्मै पदाय नमः ।
ओं पूर्णानन्दाय नमः ।
ओं सदानन्दाय नमः ।
ओं नादमध्यप्रतिष्ठिताय नमः ।
ओं प्रमाविपर्ययातीताय नमः ।
ओं प्रणताज्ञाननाशकाय नमः । ९२०
ओं बाणार्चिताङ्घ्रये नमः ।
ओं बहुदाय नमः ।
ओं बालकेलिकुतूहलिने नमः ।
ओं ब्रह्मरूपिणे नमः ।
ओं ब्रह्मपदाय नमः ।
ओं ब्रह्मविदे नमः ।
ओं ब्राह्मणप्रियाय नमः ।
ओं भूक्षेपदत्तलक्ष्मीकाय नमः ।
ओं भ्रूमध्यध्यानलक्षिताय नमः ।
ओं यशस्कराय नमः ।
ओं रत्नगर्भाय नमः ।
ओं महाराज्यसुखप्रदाय नमः ।
ओं शब्दब्रह्मणे नमः ।
ओं शमप्राप्याय नमः ।
ओं लाभकृते नमः ।
ओं लोकविश्रुताय नमः ।
ओं शास्त्रे नमः ।
ओं शिवाद्रिनिलयाय नमः ।
ओं शरण्याय नमः ।
ओं याजकप्रियाय नमः । ९४०
ओं संसारवैद्याय नमः ।
ओं सर्वज्ञाय नमः ।
ओं सभेषजविभेषजाय नमः ।
ओं मनोवचोभिरग्राह्याय नमः ।
ओं पञ्चकोशविलक्षणाय नमः ।
ओं अवस्थात्रयनिर्मुक्ताय नमः ।
ओं अवस्थासाक्षितुर्यकाय नमः ।
ओं पञ्चभूतादिदूरस्थाय नमः ।
ओं प्रत्यगेकरसाय नमः ।
ओं अव्ययाय नमः ।
ओं षट्चक्रान्तर्गतोल्लासिने नमः ।
ओं षड्विकारविवर्जिताय नमः ।
ओं विज्ञानघनसम्पूर्णाय नमः ।
ओं वीणावादनतत्पराय नमः ।
ओं नीहाराकारगौराङ्गाय नमः ।
ओं महालावण्यवारिधये नमः ।
ओं पराभिचारशमनाय नमः ।
ओं षडध्वोपरिसंस्थिताय नमः ।
ओं सुषुम्नामार्गसञ्चारिणे नमः ।
ओं बिसतन्तुनिभाकृतये नमः । ९६०
ओं पिनाकिने नमः ।
ओं लिङ्गरूपश्रिये नमः ।
ओं मङ्गलावयवोज्ज्वलाय नमः ।
ओं क्षेत्राधिपाय नमः ।
ओं सुसंवेद्याय नमः ।
ओं श्रीप्रदाय नमः ।
ओं विभवप्रदाय नमः ।
ओं सर्ववश्यकराय नमः ।
ओं सर्वदोषघ्ने नमः ।
ओं पुत्रपौत्रदाय नमः ।
ओं तैलदीपप्रियाय नमः ।
ओं तैलपक्वान्नप्रीतमानसाय नमः ।
ओं तैलाभिषेकसन्तुष्टाय नमः ।
ओं तिलभक्षणतत्पराय नमः ।
ओं आपादकणिकामुक्ताभूषाशतमनोहराय नमः ।
ओं शाणोल्लीढमणिश्रेणीरम्याङ्घ्रिनखमण्डलाय नमः ।
ओं मणिमञ्जीरकिरणकिञ्जल्कितपदाम्बुजाय नमः ।
ओं अपस्मारोपरिन्यस्तसव्यपादसरोरुहाय नमः ।
ओं कन्दर्पतूणाभजङ्घाय नमः ।
ओं गुल्फोदञ्चितनूपुराय नमः । ९८०
ओं करिहस्तोपमेयोरवे नमः ।
ओं आदर्शोज्ज्वलजानुभृते नमः ।
ओं विशङ्कटकटिन्यस्तवाचालमणिमेखलाय नमः ।
ओं आवर्तनाभिरोमालिवलिमत्पल्लवोदराय नमः ।
ओं मुक्ताहारलसत्तुङ्गविपुलोरस्करञ्जिताय नमः ।
ओं वीरासनसमासीनाय नमः ।
ओं वीणापुस्तोल्लसत्कराय नमः ।
ओं अक्षमालालसत्पाणये नमः ।
ओं चिन्मुद्रितकराम्बुजाय नमः ।
ओं माणिक्यकङ्कणोल्लासिकराम्बुजविराजिताय नमः ।
ओं अनर्घरत्नग्रैवेयविलसत्कम्बुकन्धराय नमः ।
ओं अनाकलितसादृश्यचिबुकश्रीविराजिताय नमः ।
ओं मुग्धस्मितपरीपाकप्रकाशितरदाङ्कुराय नमः ।
ओं चारुचाम्पेयपुष्पाभनासिकापुटरञ्जिताय नमः ।
ओं वरवज्रशिलादर्शपरिभाविकपोलभुवे नमः ।
ओं कर्णद्वयोल्लसद्दिव्यमणिकुण्डलमण्डिताय नमः ।
ओं करुणालहरीपूर्णकर्णान्तायतलोचनाय नमः ।
ओं अर्धचन्द्राभनिटिलपाटीरतिलकोज्ज्वलाय नमः ।
ओं चारुचामीकराकारजटाचर्चितचन्दनाय नमः ।
ओं कैलासशिखरस्फर्धिकमनीयनिजाकृतये नमः । १०००
इति श्री दक्षिणामूर्ति सहस्रनामावली ॥