छोड़कर सामग्री पर जाएँ

Anjaneya Stotra in Hindi – श्री आंजनेय स्तोत्र

Anjaneya Stotram or Anjaneyar StotramPin

Anjaneya Stotra is a devotional hymn for worshipping Hanuman Ji. Get Sri Anjaneya Stotra in Hindi Pdf Lyrics here and chant it for the grace of Lord Hanuman.

Anjaneya Stotra in Hindi – श्री आंजनेय स्तोत्र 

महेश्वर उवाच ।

शृणु देवि प्रवक्ष्यामि स्तोत्रम् सर्वभयापहम् ।
सर्वकामप्रदं नॄणां हनूमत् स्तोत्रमुत्तमम् ॥ १ ॥

तप्तकाञ्चनसङ्काशं नानारत्नविभूषितम् ।
उद्यद्बालार्कवदनं त्रिनेत्रं कुण्डलोज्ज्वलम् ॥ २ ॥

मौञ्जीकौपीनसम्युक्तं हेमयज्ञोपवीतिनम् ।
पिङ्गलाक्षं महाकायं टङ्कशैलेन्द्रधारिणम् ॥ ३ ॥

शिखानिक्षिप्तवालाग्रं मेरुशैलाग्रसंस्थितम् ।
मूर्तित्रयात्मकं पीनं महावीरं महाहनुम् ॥ ४ ॥

हनुमन्तं वायुपुत्रं नमामि ब्रह्मचारिणम् ।
त्रिमूर्त्यात्मकमात्मस्थं जपाकुसुमसन्निभम् ॥ ५ ॥

नानाभूषणसम्युक्तं आञ्जनेयं नमाम्यहम् ।
पञ्चाक्षरस्थितं देवं नीलनीरदसन्निभम् ॥ ६ ॥

पूजितं सर्वदेवैश्च राक्षसान्तं नमाम्यहम् ।
अचलद्युतिसङ्काशं सर्वालङ्कारभूषितम् ॥ ७ ॥

षडक्षरस्थितं देवं नमामि कपिनायकम् ।
तप्तस्वर्णमयं देवं हरिद्राभं सुरार्चितम् ॥ ८ ॥

सुन्दरं साब्जनयनं त्रिनेत्रं तं नमाम्यहम् ।
अष्टाक्षराधिपं देवं हीरवर्णसमुज्ज्वलम् ॥ ९ ॥

नमामि जनतावन्द्यं लङ्काप्रासादभञ्जनम् ।
अतसीपुष्पसङ्काशं दशवर्णात्मकं विभुम् ॥ १० ॥

जटाधरं चतुर्बाहुं नमामि कपिनायकम् ।
द्वादशाक्षरमन्त्रस्य नायकं कुन्तधारिणम् ॥ ११ ॥

अङ्कुशं च दधानं च कपिवीरं नमाम्यहम् ।
त्रयोदशाक्षरयुतं सीतादुःखनिवारिणम् ॥ १२ ॥

पीतवर्णं लसत्कायं भजे सुग्रीवमन्त्रिणम् ।
मालामन्त्रात्मकं देवं चित्रवर्णं चतुर्भुजम् ॥ १३ ॥

पाशाङ्कुशाभयकरं धृतटङ्कं नमाम्यहम् ।
सुरासुरगणैः सर्वैः संस्तुतं प्रणमाम्यहम् ॥ १४ ॥

एवं ध्यायेन्नरो नित्यं सर्वपापैः प्रमुच्यते ।
प्राप्नोति चिन्तितं कार्यं शीघ्रमेव न संशयः ॥ १५ ॥

अष्टम्यां वा चतुर्दश्या मर्कवारे विशेषतः
सन्थ्या पूजां प्रकुर्वीत द्वादश्याञ्च विशेषतः || १९ ||

अर्कमूलेन कुर्वीत हनुमत्प्रितिमां सुथीः
पूजये त्तत्र विद्वान् यो रक्तवस्र्तेण वेष्टयेत् || १७ ||

ब्राह्मणा न्भोजये त्पश्चा त्तत्प्रीत्यै सर्वकामदाम्
यः करोति नरो भक्त्या पूजां हनुमत सुधीः
न शस्र्त भय माप्नोति भयं वा प्यन्तरिक्षजम् || १८ ||

अक्षादि राक्षसहरं दशकण्ठ दर्प निर्मूलनं रघुवरांघ्री सरोजभक्तम्
सीता विषह्य घन दुःख निवारकं तं वायो स्सुतं गिलित भानु महं नमामि || १९ ||

मां पश्य पश्य हनुमान् निजदृष्टि पातैः
मां रक्ष रक्ष परितो रिपु दुःख पुंजात् |
वश्यां कुरु त्रिजगतीं वसुधाधिपानां
मे देहि देहि महतीं विसुधां श्रियं च || २० ||

अपद्भ्यो रक्ष सर्वत्र आंजनेय नमोस्तुते
बन्धनं छेदयाजस्रं कपिवीर नमोस्तुते || २१ ||

दुष्ट रोगान् हन हन राममात नमोस्तुते
उच्चाटय रपू स्सर्वा न्मोहनं कुरु भूभुजम् || २२ ||

विद्वेषिणो मारय त्वं त्रिमूर्त्यात्मक सर्वदा
संजीव पर्वतोद्धार मनोदुःख निवारय || २३ ||

घोरा नुपद्रवान् सर्वान् नाशयाक्षासुरान्तक
एवं स्तुत्यात् हनूमन्तं नरः श्रद्धा समन्वितः || २४ ||

इत्युमासंहितायां आंजनेय स्तोत्र ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *